________________
उच्छ्वासः]
मदनरेखा-आख्यायिका नयनरहिता अपि न विशुद्धविवेकनयनरहिताः, यशोभैयाविकलाः अपि नयशोभया विकलाः, द्विधापि नैवां धवपरम्परां बहु मन्यन्ते, द्विधापि कामसुखसमृद्धिं न समासादयन्ति । किं बहुना, परकीया-रामा नितरामभिरामा यदा मालिकेन नाहि.केन च दृश्यन्ते तदा स्वस्य नवकुलजातिरमणीयबालकालबालोपेक्षा विधीयते, तदत्रापि न्यसने स्व-परयोरवकशोऽपि रक्षणीयः । किञ्च, विषमव्यसनार्णवे तदस्मिन् पिशुनाः स्वार्थकृते प्रभु क्षिपन्ति, सुजनास्तु समुद्धरन्ति मग्नम् , तँदमीभिः सह सङ्गमो विधेयः । अपि च
१. यशः-कीर्तिः, भयम्-भीतिः, यशसः भयम् यशोभयम् अर्थात् दुश्शीलानां यशसः नाशो भवति इति यशोभयेन अविकलाः संपूर्णा अर्थात् यशोनाशभयेन संपूर्णतया युक्ताः एतादृशा अत एय नयशोभया, नयाना-नीतीनां न्यायमार्गाणां शोभया विकला रहिता-न्यायमार्गरहिता इति आशयः । यशोभयाविकला इति एकं पदम् तथा नर शोभ्या विवला इति पदद्वयम् । अत्र 'यशोभयाविकला' इति ' नयशोमया विकला' इति च शब्दापेक्षया विरोधः परन्तु अर्थस्तु पूर्वदर्शितः सुसंगत एव ।
, २. नवां धवपरम्पराम् इति एकोऽर्थः । नवां-नवीनाम् , धवपरम्परां-पतिपरम्परां बहु मन्यन्तेनवधवस्वीकारपद्धतिं सादरं स्वीकुर्वन्ति-पातिव्रत्यपालनं न मन्यन्ते इति भावः । 'न बान्धवपरम्पराम्' इत्यपि पदविभागः । न निषेधे बान्धवपरम्परां न बहु मन्यन्ते । बान्धवाः-स्वजनाः । अत्र व-वयोः ऐक्यं बोध्यम् , तथा 'नवाम+धर्व' इत्यत्र सन्धौ ‘नवान्धव' इति अन्त्यमकारस्य 'न'कारो विधेयः-अत्र सन्धिविधानाय "तो मुमो व्यञ्जने स्वौ” [ हैम० १।३।१४ ] इति सूत्रं प्रयोजनीयम् ।
३. अत्रत्यां सांसारिककामसुखसमृद्धि नासादयन्ति । तथैव पारत्रिकस्वर्गादिकामसुखसमृद्धि नासादयन्ति । तथा काम् असुखपरम्परां-दुःखपरम्परां न आसादयन्ति-सर्वप्रकाराणि दुःखानि प्राप्नुवन्ति दुश्शीला इति भावः इत्येवं विचारणया अर्थापेक्षया द्विधात्वं बोध्यम् ।
४. मालिकेन नालिकेन मूढेन च इत्यनयोः पक्षे परकीयाऽऽरामा इत्येवम् ‘आराम'शब्दो बोध्यः, परकीयाऽऽरामाः परेषाम् आरामा:-उद्यानानि नितराम् अभिरामा:-मनोहरा इति । मालिक:-आरामरक्षकः, नालिकं च कमलम् । 'अज्ञ'अर्थसूचकोऽपि दीर्घ ईकार 'युक्तः 'नालीक 'शब्दः शब्दकोशे विद्यते सोऽपि अत्र ग्राह्यः, अर्थश्च नालीकेन अज्ञेन मूढेन इति ।
कुमारपक्षे मूटपक्षे च परकीयाः रामाः नार्यः नितराम् अभिरामा दृश्यन्ते तदा नवकुलजातिरमणीयबालकालबालोपेक्षा विधीयते । बालकाले या: बलाः तासां बालकालबालानाम् इति । मालिकपक्षे बकुल-जाति-रमणीय वालकानाम; आहे. वाल:-वेदारः तय उपेक्षा, न इति निषेधे विधीयते अर्थात् परकीयोद्यानानाम् अवलोकने स्वस्य रूगृहस्य प्राङ्गणे ये कृताः बकुल-जातिरमणीयबालकानां ये आलवाला:-- केदाराः, तेषाम् उपेक्षा न विधीयते । बालकः भाषायां 'वाळो 'नाम्ना प्रसिद्धः सुगन्धी तृणविशेषः । अत्रापि ब-वयोः साम्यम् । तथा 'नवकुल : इति अखण्ड पदम् , ' न बकुल ' इति च सखण्डं पदम् ।
५. पिशुनाः चाटुकारिणः । ६. स्वामिनम्-नृपम् । ७. तदमीभिः-तत्-तस्मात् कारणात् , अमीभिः-सुजनैः । 1 °ता नयशो डे। 2 °लिकेनेव द डे!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org