________________
१४४ श्रीजिनभद्रसूरिरचिता
[पञ्चमः द्विषतः क्रूराशयाः सावधानबुद्धयः कुरङ्गे न तु रङ्गे, ततः सर्वथा नस्कपथप्रस्थानरसिकैरेव आखेटकविधिरयमन्मतः । तेन कारणेना-युदयनिःश्रेयसार्थिना तात ! त्वया निजजनपदेऽपि रक्षणीयोऽरय व्यसनस्य प्रचारः ।
चौरिका पुनरियमत्यन्तविरुद्धतया कैर्नाम न निषिध्यते ? । चौरसम्बद्धः पुत्रोऽपि राजपुरुषैर पेक्ष्यते जनकोऽपि पैरवापहारकादपि परास्वापहारको मात्रयाऽप्यधिकः पापीयस्तया, कथमन्यथा वापि कश्चिद् वधकोऽपि लब्धप्रससे दृश्यते चौरस्तु निगृह्यत एव यतः असौ अर्थमपहरन् परेषामसूनमपि परमार्थतः सुतरामपहरति । किञ्च, चौरिका चौरस्येव तदुपेक्षकस्यापि भूपतेरसाधुत्वं प्रथयति, तदसौ प्रजाप्रतानिनी दवदेश्याऽनेकधा रोचितश्रीकेणोन्नतिघनेन शमनीयैव वत्सेन ।
परप्रियोपभोगरसिकत्वं पुनरिदं कण्ठगतैरपि प्राण चरितं विमलकुलजन्मभिश्चतुरचेतोभिः । दौःशील्यलौत्याधीनधियः कुधियो नैरकान्तपरकान्तानुगतमलयो विशुद्धविवेक
१. कुरङ्गे-हरणे. 'न तु रङ्गे-न तु नर्तनस्थाने सावधानबुद्धयः । अथवा 'न तुरङ्गे' इत्येवं पदविभागे तुरङ्गे इति चित्ते अर्थात् क्रूराशयाः चित्ते न सावधानबुद्धयः ।।
२. अत्र परस्वाप तथा परास्वाप इत्येवं द्वे पदे। तत्र 'परस्याप' पदं पञ्चमात्रिकम् तथा 'परावाप' पदं षणमात्रिकम् । एवं च सति षण्मात्रिकं पदम् मात्रया अधिकम् । 'परस्वाप' इत्यादिकस्य तथा 'परास्वाप०' इत्यादिकस्य अयम् अर्थ
परस्य स्वम् धनम् तस्य अपहारकः, परस्य स्वापः-निद्रा-तस्य हारकः ।
'परास्वाप०' इत्यादिपदव्य अयम् अर्थ:-परस्य असवः प्राणाः तेषाम् आपहारकः (आ समन्तात् , अपहारकः) अथवा परस्य आरवापः (आ समन्तात् स्वापः-सुखनिद्रा) तस्य हारका अथवा चित्र-काव्यत्वेन 'परस्वाप०' इत्येवं विवक्षणे परस्य स्वम् धनम् तस्य अपहारक इति । चौरो हि परास्वाप-परनिद्रां हरत्येव । अत्र पर+असु+आपहारक इति, पर+आस्वाप+हारक इति, तथा पर+स्व+अपहारक इति पदविभागः। अत्र असवः-प्राणाः, अथवा धनरूपाः प्राणा बोध्याः।
३. तत्-तस्मात् कारणाद् असौ चौरिका प्रजाप्रतानिनी प्रजासु प्रकर्षेण विस्तारवती जायमाना दवदेश्या-दवो दवानलः तत्समाना अतः सा उन्नतिघनेन उन्नतिरूपमेघेन शमनीया एव । उन्नति प्राप्तो मेघः सर्वतापशमनः, तथा उन्नतिम् अभ्युदयं प्राप्तो नृपः सर्वदूषणशमन इति ।
४. नरकपातरूपः अन्तः परिणामः यस्याः सा नरकान्ता । नरकान्ता परकान्तानुगतमतिः येषां ते नरकान्तपरकान्तानुगतमतयः । परस्य कान्ता परकान्ता । परकान्ताम् अनुगता मतिः परकान्तानुगतमतिः ।
५. विशुद्धः विवेकः, तद्रूपं नयनं नेत्रं, तेन रहिता, अर्थात् विशुद्धविवेकरूपलोचनरहिता अपि ते न विशुद्धविवेकनयनरहिताः विशुद्धः विवेकः नयश्च येषां ते विशुद्धविवेकनयाः, तादृशा ये नरा मानवाः तेषां न हितरूपाः, अर्थात् परदारपरायणा नरा विशुद्ध विवेकनयवतां नराणां न हितरूपाः अकल्याणकारिणः : अत्र 'विशुद्धविवेकनयनरहिता' इति न विशद्धविवेकनयनरहिता' इति च केवलं शब्दापेक्षया विरोधः, अर्थापेक्षया तु न कोऽपि विरोधः । 'नयनरहिताः' इति पदद्वयम् विरोधपरिहारपक्षे 'नय-नर-हिताः' इत्येवं पदत्रयम् ।
1 ततस्त्वया ख । 2 प्रजापतिनेनिनाद ल। 3 प्राणैरपि नाच डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org