________________
उच्छ्वासः ]
मदनरेखा - आख्यायिका
१४३
स दास्या सममेव पणरमणीरपि परित्यजति । न खलु भुजङ्गप्रियाणां सर्पिणीनामिव भुजिष्याणां कोपिगोचरं गतो धर्मार्थसन्तानपरिभ्रंशं न लभते । वेश्याजातिरपि वरदेवाला स्मरतसमृद्धि पूर्णमपि का - या - न पात्र विसूत्रयति । नो वा हितदृष्टिरेव समुद्ररमणीषु निमज्जतितरां समुद्रपणरमणीषु पुनरवहितदृष्टिरपि । याश्च जठरे निक्षिपन्ति सुरा: नानपिस्दा ताः कथमपरमं समारवादयन्त्यो घृणीयन्ते ? । ततो वैसुरतचित्तानामपि न वसुरतचित्तानां पणवधूनां सम्भोगपरः सुरा-मांसहां त्यजन् अपि न तत्त्वतः सुरामांसंस्पृहां त्यजति । तदेतारवपि न विश्वसनीयम् ।
पापर्द्धिरपि पापर्द्धिरेव यदत्र प्रेसक्ताः पापीयांसोऽनेकधा सर्वदा वागुरावा सितचेतसो द्विधा - पिशुनानुगम्यमानचेतसः सर्वतोऽपि चापशब्दप्रगल्भा निर्वाणगुणसमृद्धिकं धर्ममपि १. भुजङ्गाः हि सर्पाः गणिकाधिपतयो वा विपुरुषाः । भुजिष्याः वेश्या गराङ्गनाः, तासां गोचरं गतः धर्मार्थस्तानपरिभ्रंशं न लभते इति न, अपितु लभते एव । धर्मग्य अर्थस्य च 'संतान परिभ्रंश ' शब्देन अन्वयः । ' गोचरं ' इत्यस्य कोऽपि ' इति विशेषणमपि ज्ञेयम्-कोपिगोचरम् अथवा कः अपि गोचरम् इति पदविभागः । सर्पिण्यो हि सदा कोपपरायणा एव अतः सर्पिणीपक्षे कोपिगोचरं कोपयुक्तं गोचरम् इत्यर्थो बोध्यः, तथा कः अपि जनः अर्थात् सर्षो जनः इति भावोऽपि भावनीयः ।
२. वा अत्येव अनुकूला, का ? वेश्या, समस्त समृद्धिपूर्णमपि पात्रं पुरुषं, न विसूत्रयति-न नाशयति ? अपि तु सर्वा एव वेश्या ऋद्धिसंपन्न पुरुषपात्रं नाशयत्येव । वात्या इव वात्या - वातानां समूहः- झञ्झावातः, सा का । वात्या या पात्रम् - यानपात्र - प्रवहणं न विसूत्रयति ? सर्वा एव वाया यानपात्रं विनाशयत्येव । अत्र ' का या न पात्रम् ' तथा ' का यानपात्रम् ' इति द्विधा पदविभागः । ३. हितदृष्टिरेव समुद्रासु - मुद्रासहितामु रमणीषु नो वा निमज्जतितराम् यः अवहितदृष्टिःसावधानदृष्टिः सः अपि समुद्रपणरमणीषु नो निमज्जति, अर्थात् समुद्राः मुद्रासहिता ये पणा अक्षाः तैः या रमन्ते क्रीडन्ति तासु द्यूतप्रियासु रमणीषु न निमज्जति ।
3
४. ननिमिषान्- अनिमिषान् मत्स्यानपि ।
५. बसुरतचित्तानां - धनरतचित्तानाम्, नवसुरतचित्तानां - नवरतक्रीडनचित्तानाम् पणवधूनां संभोगपरः । सुरा- मांसरपृहां त्यजन्नपि तत्त्वतः - परमार्थेन, सुरार्मा - सुभार्या सरपृहां न त्यजतिपणव धूसंभोगपरायणः कदा च सुरायाः मांसस्य स्पृहां त्यजन्नपि सुरामां - सुभार्याम् अभिलाषसहितां न त्यजति तत् तस्मात् कारणाद् एतासु पणवधूषु अपि न विश्वसनीय, सदाचारपरायणेन । अत्र " सुरा - मांस स्पृहाम्' तथा ' सुरामां सरपृहाम्' इत्येवं पदविभागः ।
६. द्विधाऽपि शुनाऽनुगम्यमानचेतसः पापर्धयो हि आखेटका: पिशुनानुगम्यमानचेतसः तथा शुनानुगम्यमानचेतसः, आखेटका हि शुनानां मण्डलम्, आखेटक्सारमेयाणां मण्डलं पालयन्ति तेच शुनाः- आखेटकान् नयन्ति मार्ग प्रदर्शयन्ति इति विश्रुतम् । अत्र 'द्विधा पिशुना तथा द्विधाऽपि शुना इति पदविभागः ।
७. अत्र चापस्य-धनुषः शब्देन प्रगल्भा इति तथा सर्वतोऽपि च अपशब्देन परस्परम् अपशब्दप्रयोगेण प्रगल्भाः - घृष्टाः - निर्लज्जा इति भावः । अत्र 'च अप' तथा 'चाप' इति विभागः । 2 'रविहि° डे । 3 °२मां स्वाद° डे। 4 स्पृहां त्य डे । 6 मानचेष्टाः स° डेल ।
1 'ति सा विहितदृष्टिरिव डे । हृदि न तत्त्वतः डे । 5 प्रशस्ताः पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org