________________
ર
श्रीजिनभद्रसूरिरचिता
[ पञ्चमः
हि बुद्धिः कं न भक्षयति ? कं वा नोद्वेजयति । तेनैवा हि- सोल्लासं कुर्वाणः समाधिसम्पादनेन वामाङ्गज इव धन्य एव स्वपरहितः सम्पद्यते ।
मधुपोऽपि नावदातस्वभावः कश्चिदीक्ष्यते यतोऽसौ पुष्पवतीमपि बहुतरलतां पुरस्कृत्य कां न स्पृशति यद्वानेन मधुपरागसादरेण गन्तुमनुचिताऽप्यसौ सुतरामासेव्यते तेन चैत्रमकरन्दयोरेव ‘मँधुः' इति ध्वनिव्यपदेशोऽपि नियोजनीयैः । तथा यः सदास्यो न वा सदास्यैः
जनः सुसूक्ष्मं लघुतमं वस्त्रं परिदधाति इति तु वस्त्रविषयो भावः । मांसपरिहारविषये तु अयं भावः-यैः जडाशय:- मूहाशयः शोषितः- दूरीकृतः ते ज्येष्ठा:- उत्तमाः पुरुषाः तथा शुचयः पुरुषा:- पवित्राः पुरुषाः तेषाम् असम्मतम् मांसलम्पट - मांसाहारलुब्धं नरं कः सकर्णः समासन्नमपि - निकटवर्तिनं करोति इति भावः ।
१. अहिंसामा उल्लासम् अहिंसोल्लासम्, तथा अहिं सोल्लासम् इति द्विधा पदविभागः । अहिंसोल्लासं कुर्वाणः, राजकुमारपक्षे अहिंसाया उल्लास - अहिंसासमाचरणं कुर्वाणः । वामाङ्गजपक्षे वामाङ्गजः - पार्श्वनाथः स अहिं सोल्लासं कुर्वाणः- श्रीपार्श्वनाथेन कमठतापसेन अज्ञानवशतया पञ्चाग्निमध्ये दह्यमानम् अहिं रक्षित्वा तस्य समाधिः संपादितः । अन्योऽपि यः अहिंसासमाचरणं करोति स सर्वः सर्वेषां प्राणिनां समाधिं संपादयति ।
२. पुष्पयुक्तां लताम्, पुष्पवर्ती रजस्वलां नारीम् मधुपः - भ्रमरः तथा मधुपः - मद्यपः । बहुतरलतां - बहुचपलताम् । भ्रमरो हि बहुचपलः । मद्यपोऽपि इन्द्रियवशतया बहुचञ्चलः | असदाचारप्रवणतया मद्यपो हि रजस्वलामपि नारीं स्पृशति अत एव न अवदातस्वभावः- न उत्तमस्वभावः । मधुपः- भ्रमरोऽपि कृष्णवर्गत्वेन न अवदातस्वभावः - नोज्ज्वलवर्णः ।
३. मधुनः परागः तत्र सादरेण मधुपेन - भ्रमरेण, मद्यपपक्षे मधुपस्य- मद्यपस्य रागविषयक - आदरेण स्त्रीविषयक रागबाहुल्येन । अत्र ' मधु + पराग' इति तथा 'मधुप + राग' इति द्विधा पदविभागः ।
CC
८८
४. 'मधु' शब्दस्य नानार्थता प्रसिद्धा अनेकार्थकोशे- “मधुः चैत्र - ऋतु" इत्यादि तथा मधु क्षीरे " पुष्परसे " इत्यादि ( - हैम-अने० कां० २, श्लो० २४७, २४८)। अत्र मधुशब्दः चैत्र मास पुष्परसेऽपि च इत्येवम् अर्थद्वये प्रदर्शितः । तेन अत्र 'तेन' इति तृतीयान्तम् अखण्डम् अथवा 'ते' 'न' इति पदद्वयम् । ते तब, त्वया, अयं 'मधु' इति ध्वनिव्यपदेशः न नियोजनीयः । एतादृशदोषकारकाणाम् अर्थे त्वया 'मधु' इति शब्दो न नियोजनीयः इति आशयः ।
५. सत् - शोभनम् आस्यं - मुखं यस्य स सदास्यः । दास्येन - दास्यभावेन सहितः युक्तः सदास्यः । एवं सदास्यः शोभनमुखः, अथवा सदास्यः - दासभावसहितः परतन्त्रः । अर्थाद् यः सदास्यः-शोभनमुखः परन्तु न सदास्यः परतन्त्रतापरायणदासभावयुक्तः तथा स सदाचारपरायणत्वेन दास्याङ्किर्या सममेव सहैव पणरमणीः अपि त्यजति यथा दासीं त्यजति तथैव पणरमणीः अपि त्यजति इति भावः । पणरमणी नाम पणेन मूल्येन या रमणी सा पणरमणी - वाराङ्गना ।
1 तेन मकरन्द- चैत्रयोरेव ख । 2 मधुध्वनि खल |
यः । यः स ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org