________________
उच्छवासः] मदनरेखा-आख्यायिका
तथा, राज्ञा श्रीमदादयोपि केचिदेव सन्निधापयितव्या न पुनः सर्वेऽपि, यतः केचिदेतेभ्यस्त्यज्यमाना एव समुद्रस्येवापारिजातत्वं घटयन्ति, ततो श्रीमदादयोपि वत्सेन हेया एव ।
किञ्च, दुर्जनयौवनश्रीमदादिवद् व्यसनसप्तकमपि त्यजतामेवाखिलानामपि कुलीनानामिहामुत्र कल्याणमन्यथा पुनरकल्याणमेव । वत्स ! भवता नलक्षितिपालः किमाकर्णितो 'नैष-धी-राज्याखण्डलाभजयलक्ष्मीरपि दुरोदरख्यसनतो हारितवान् । दुरोदरग्रस्तमनसो हि सत्यमत्यापि शीललीलयापि कुलबलेनापि जातिपकृत्यापि यशोलेशेनापि घनध्वनिनापि धर्मनर्मणापि विमुक्ताः सन्तानके विगुप्यन्ते । ततः कदाचिदपि निःशेषव्यसनराजस्य द्यूतस्य नामापि न सहनीयम् ।
__मांसमपि सर्वथाऽप्यहिंसामूलस्य सर्वस्य धर्मस्य प्रतिपन्थीति स्वदेशेऽपि निवारणीयम् । इह सद्वेषरागोच्छेदिकां समस्ताम्बरतोऽपि वरेण्यां दिव्यांशुकयुक्तिं प्राप्तोऽपि शोषितजडाशयज्येष्ठशुचिसमयाऽसमतं मांसलम्पटं समासन्नमपि कः सकर्णः करोति । परम् आमिषपरा
१. ' श्रीमदादयः' मदो नाम गर्वः । अत्र आदिशब्देन विविधा मदा ग्राह्याः । ते च एवम्-श्रीमदः, रूपमदः, यौवनमदः, दाक्ष्यमदः, वैभवमदः इत्यादयः । अर्थात् एतेषु नदेषु न सर्वे सन्निधौ रक्षणीयाः परन्तु केचिद योग्या एव संनिधापयितव्याः ।
२. यथा समुद्रः अपारिजातः-पारिजातवृक्षरहितः तथा राजकुमारोऽपि अपाऽरिजातः-अपगता अरिजाताः यस्य सः अपारिजातः तद्भावः-अपारिजातत्वम् । अरिजाता:-अरिसमूहाः अपगता विनष्टाः ।
३. 'नैषधीराज्याखण्डलाम, इत्यादिवाक्यस्य अर्थद्वयम्, तथाहि-न+ एष नैषः । निषधस्य अपत्यं नैषधीः नलनृपः । एष च राज्ये आखण्डलाभः-इन्द्रसमानः .जयलक्ष्मीः अपि हारितवान् । आकर्णितो न? एष धियम् राज्यस्य आखण्डलाभरूपा जयलक्ष्मीश्च एतद् द्वयं हारितवान् यतव्यसनेन । अत्र काव्यस्य चित्रतया 'आखण्डलामः' इत्यत्र विसर्गस्य लोपो वोध्यः । समस्तपदपक्षे तु विसर्गस्य न प्रयोजनम् ।
४. शोभनश्चासौ वेषश्च स द्वषः, तस्य रागोच्छेदिकाम्-उद्भवेषरहिततायुताम् एतादृशीं दिव्यांशुकयुक्ति-दिव्यवस्त्रपरिधानयुक्ति वं प्राप्तोऽपि, तथा द्वेषेण सह यः रागः सद्वेषरागः तस्य उच्छेदिकां-विनाशिकां दिव्यांशुकयुक्तिम् अर्थात् यः अनुभदं वेषं परिदधाति तं प्रति प्रायः न कश्चिद् द्वेषं वा रागं वा करोति इति तात्पर्यम् ।
५. शोषितजडाशयः, शोषितजलाशयः यः ज्येष्ठो मासः, शुचिः-आषाढो मासः, तयोः समयः-ग्रीष्मसमयरूपः कालः, तस्मिन् काले असंमतं परिधेयतया असंमतम् , मांसलं पटम्-स्थूलं वस्त्रम्, समासन्नम्-निकटतमम् अपि कः सकर्णः करोति-न कश्चिदपि अर्थात् जलाशयशोषके ज्येष्ठे आषाढे च मासे न कोऽपि दक्षः स्थूलं वस्त्रं परिदधाति, तस्मिन् हि उष्णसमये सर्वो हि
1 °पि मुक्ताः डे । 2 सन्तान केऽपि कुप्यते ख । 3 कदापि दोषव्य डे। 4 °लस्य धर्मस्य डेल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org