________________
१४०
श्रीजिनभद्रसूरिरचिता गुणः कण्ठगतप्राणेनाऽपि गृह्यते । ततो वत्स ! साधूनामाननेनापि पुरस्कृता संहतिर्महते गुणाय । सा-धूपकारघटना सँदोषधीयुक्त्याऽपि सेव्यमाना कस्य नाम नामोदसम्पदं सम्पादयति ? यो हि साधुना हारेणेव गुणेनाधःकृतोऽपि, स को नाम नायको न भवति । नायकेनापि संत्रासता द्विधापि न विधेया, सत्त्रासो हि चेतनस्तरलतामेव प्रतिपद्यते । किं बहुना, प्रैभवतापि विशुद्धपक्षेणैवं राज्ञा सङ्गतिविधेया । स हि कृशमपि पूर्णताम् , विकलमपि सकलताम् , स्तोकतेजसमपि पूरिततेजस्कतां राजानं नयति । मलिनपक्षस्तु विपरीतकारक एव । यस्माद् गुणसज्जनः सज्जन एव बहु मन्तव्यः ।
यौवनमैदस्यापि नावकाशो दुर्जनस्येव चेतनेन देयः । यतो हितोपि यौवनमदस्तथा विषयाधिक्यं सम्पादयति यथा चेतनोऽप्यचेतनतां बिभ्राणो महाप्रभावेणापि मन्त्रेण मन्त्रिणां सुतरामक्षमोऽनीशश्च सम्पद्यते । न च गौरीशमन्तरेण पुरुषान्तरेणापि घटते, लब्धप्रसरे वा यौवने तरुणेन प्रतापवता कुलीनेन चपलस्वभावतामाश्रितेन स्थिरा छायापि न प्राप्यते । ततो यौवनेनापि यथा न जीयसे तथा यतितव्यम् ।
१. साधूनां-सज्जनानाम् , आननेनापि-मुखेन अपि । २. साधूनामुपकारघटना अथवा सा धूपकारघटना, धूपो हि आमोदं समपादयति ।
३. सती-शोभना या ओषधी सा सदोषधी, तस्या युक्त्याऽपि अर्थात् ओषधीसेवनवद् अथवा दोषसहिता धीः सदोषधीः तस्याः युक्त्या-योगेन, धूपकारघटनापक्षे धूपे हि धूमो दोषः । . ४. गुणेन-दवरकेण, सद्गुणेन बा । हारपक्षे दवरकेण, साधुपक्षे सद्गुणेन । गुणेनदवरकेण हि हारस्य नायकरूपः चन्द्रका अधःक्रियते । साधुपक्षे अधःकृतः-नम्रतां नीतः को नाम नायको न भवति ।
५. सतां-सज्जनानां त्रासः सत्त्रास:, तस्य भावः सत्त्रासता, नायकेन हि सतां त्रासो न विधेयः । त्रासेन सहितः सन्त्रासः तस्य भावः सत्त्रासता-त्राससहितता न विधेया । सताम् सज्जनानां त्रासः अथवा सताम् विद्यमानानाम् सामान्यतया कस्यापि त्रासः इत्येवं सत्त्रासताया द्विविधता बोध्या।
६..प्रभवता-सामर्थ्यवता अथवा उदीयमानेन राज्ञा । राज्ञा नृपेण, राज्ञा-चन्द्रेण । नृपपक्षे विशुद्धपक्षेण-गुणयुक्तशुद्धपक्षीयसज्जनेन सह संगतिविधेया । सज्जनानाम् एव संगतिविधेया इति 'एव 'कारेण अवधारणात् नान्येषां संगतिः कार्या इति भावः । चन्द्रपक्षे विशुद्धपक्षणउज्ज्वलपक्षण-शुक्लपक्षेण संगतिविधेया । चन्द्रपक्षे शुक्लपक्षो विशुद्धपक्षः ।
७. मलिनपक्ष:- नृपपक्षे दुर्गुणयुक्तः पक्षः मलिनपक्षः, चन्द्रपक्षे कृष्णपक्षः तमोयुक्तपक्षः मलिनपक्षः ।
८. नामसज्जनः, -यः नाम्ना एव सज्जनः, स्थापनासज्जन:-केवलम् आकृत्या सज्जनः, द्रव्यसज्जनः-भूतकाले सज्जनः, भाविनि वा काले सज्जनो भविता, भावसज्जनः वास्तविकरूपेण सज्जनः-इत्येवं चतुर्विधेषु सज्जनेषु यो भावसज्जनः स गुणसज्जनो मन्तव्यः, अतः तादृश एव सज्जनो बहु मन्तव्यः नान्यः इति भावः । ___1 गुणक खला। 2 °स्कृतसं डे। 3 नामोदं सम्पादयति डे। 4 व सङ्गति° डे । 5 °मदनस्यापि खल।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org