________________
उच्छ्वासः] मदनरेखा-आख्यायिका
१३९ हताशो यस्मादुलूक इव दोषकप्रियः सन्तमसन्तं सवितारमपि मन्यते । न हीनः पूर्णमण्डलोऽपि सन्तापमकृत्वाऽस्तमयते । यश्चक्षुरादिमान् स न खलोपकरणपरो भवति । न-खलक्षितश्रीकता नरेन्द्रेण प्रजानां करशाखानां च विधेया। स वै-वानरो यो मांसमासाथ सस्नेहमतिपरिचितमपि कं नोपतापयति । न च प्रतिभासमानोऽपि शुनः पिशुनः पुनरितरः । नापितोऽपकारकोऽपि साधुः साधुनापितोपकारको मन्यते । पिशुनेनापि शुनेनादेरपि न
१. खल:-दोषाः-दूषणानि एव खलस्य प्रियाणि । उलूकः-दोषा-रजनी, उलूकस्य रजनी एव प्रिया । यो रजनी प्रियः उलूकः स सन्तं विद्यमानमपि सूर्यम् असन्तं मन्यते । एवमेव दोषप्रियः खलः सन्तमपि पितरम् असन्तं मन्यते ।
___२. न हि+इनः-नहीनः । इनः-सूर्यः पूर्णमण्डलोऽपि संतापम् अकृत्वा न हि अस्तम् एति, सूर्यः सन्ताप-समीचीनं तापं करोत्येव, विना तापं कृत्वा न हि सूर्यः अस्ततामेति इति विदितम् ।
३. खस्य-सूर्यस्य, लोपकरणम् , तस्मिन् परः अर्थात् चक्षुरादिमान् नरः 'सूर्यो नास्ति' इत्येवं न मन्यते । “खस्तु सूर्यः” (-हैम० अनेका० कां० १, श्लो० ६)। तथा खलस्य यानि उपकरणानि दोषयुक्तानि साधनानि तेषु परः-परायणो न भवति, न खलोपकरणपरः ।
'चक्षुरादिमान्' अत्र आदिपदेन मेधा-प्रज्ञा-विद्यादयो गुणाः ग्राह्याः ।
४. खलैः क्षितं खलक्षितम्-खलकृतक्षयः, खलक्षिता श्रीः यस्याः सा खलक्षितभीः अतः 'क'प्रत्यये सति खलक्षितश्रीका तस्याः भावः खलक्षितश्रीकता । प्रजानां श्रीः खलैः क्षिता-क्षीणा भवेत् एतादृशी परिस्थितिः नरेन्द्रेण न विधेया । अत्र 'न+खल' इति पदद्वयम् ।
५. करशाखानाम्-अङ्गुलीनां च नखैलक्षिता युक्ता श्रीर्यस्याः सा नखलक्षितश्रीका तस्याः भावः नखलक्षितश्रीकता अर्थाद् अङ्गगुलयो हि नखलक्षितश्रीका-नखशोभायुक्ता विधेयाः । अत्र 'न' इति भिन्नं पदं न, परन्तु 'नख' इत्येवम् अखण्डं पदम् ।
६. सः प्रसिद्धः, वैश्वानर:-अग्निः , सस्नेहमपि-घृतादिस्नेहसहितम् अपि के पदार्थ जीव वा न उपतापयति? अत्र 'वैश्वानर' इति एक पदम्। वैश्वा नरः-स वै श्वा-कुकरः, नरो वा पुरुषः यः मांसमासाद्य अन्यं प्राणिनं मनुष्यं वा सस्नेहम्-अतिपरिचितमपि कं न उपतापयति ? अत्र 'मांस'शब्देन कुक्कुरपक्षे प्रसिद्ध मांसमेव ग्राह्यम् , नरपक्षे रूप-रसादिकविषयरूपं मांसं बोध्यम् । अत्र तु 'वै श्वा नरः' इत्येवं पदत्रयम् ।
७. प्रतिभासमानोऽपि-दीप्यमानोऽपि । पिशुन:-खलः । शुनः-श्वानात्, न इतर:-न भिन्नःपिशुन-शुनौ समानौ इति भावः ।
८. अपकारकोऽपि क्षौरं कुर्वन् छिन्दानोऽपि नापितः साधुः अर्थात् पिशुनः नापितादपि हीनः । साधुना-अखलेन 'पिता उपकारकः' इति मन्यते-साधुना पिता आद्रियते । खलस्तु उपकारकमपि पितरं न मन्यते । अत्र 'साधुना' 'पिता' 'उपकारकः' इत्येवं पदत्रयम् ।
९. आदेरपि-प्रारम्भकालादपि पिशुनः कण्ठगतप्राणोऽपि-आसन्नमरणोऽपि न गुणं गृह्णाति, शुनोऽपि गुणं-रज्जु-दवरकं न गृह्णाति ।
1 प्रतिप्रतिभा डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org