SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ १३८ शृणु रहस्यम् - श्रीजिनभद्रसूरिरचिता शास्त्रज्ञः कुलजः क्षमः प्रशमवानाविर्भवद विक्रमो भक्तोऽसि त्वमतः पुनः पुनरयं राज्यार्थमादिश्यसे । तस्मात् स्वीकुरु काश्यपीमशरणां त्यक्तां मया सर्वथा दीक्षां पूर्वज सेवितां भगवतीमाराधयिष्ये यतः ॥३४७॥ ततो दुर्लक्ष्यतया गुरुशासनस्य, विनीततया प्रकृतेः प्रतिपन्ने कुमारेण तदादेशे वसुधावासवः पुनरब्रवीत् - ' वत्स ! यद्यपि भवतः 'कोदण्डस्येव समस्ति समस्ताऽपि गुणयुक्तिः, कैमलस्येव दोषैकविमुखता, रथाङ्गस्येव प्रियमित्रता, युग्मधर्मिण इव बन्धुरहितता, गर्भरूपस्येव नालस्यघटना नैसर्गिकी तथापि शिक्षाप्रदानाय मुखरयति मामेष ते विनयः । यद्वा सद्भिर्निग्रहीतुं प्रमादं शिक्षालेशो धीमतोऽपि प्रदेयः । मात्रा चक्षुर्मण्डलं दृष्टिदोष हेतु कार्य भूषितस्यापि सूनोः ॥ ३४८ ॥ [ पञ्चमः इह हि तावदात्मनीनेन सर्वेणापि कुलीनेन गुरूपदेशसारसर्वस्वं द्वयमिदमवधारणीयम् । खलजनस्य परीहारः, सज्जनस्य च स्वीकारः सततमेव विधातव्य एव । खलो हि १. कुमारपक्षे गुणानां - सद्गुणानां राज्यपालनक्षमगुणानां वा युक्तिः । कोदण्डपक्षे गुणः प्रत्यञ्चादवरकः, तस्य युक्ति:- योजना | २. कुमारपक्षे दोषान् प्रति, दुर्गुणान् प्रति एकम् असाधारणं वैमुख्यम् । कमलपक्षे दोषां - रजनीं प्रति एकं वैमुख्यम् । ३. कु० पक्षे प्रियमित्रता - मित्राणां प्रियत्वम् । रथाङ्गपक्षे प्रियमित्रता - सूर्यस्य प्रियत्वम् | ४. कु० पक्षे बन्धुराय - सुन्दराय हितता, सौन्दर्यप्रियत्वम्, युग्मधर्मिपक्षे बन्धुरहितत्वम्भ्रातृविहीनता । जैनपुराणे प्रसिद्धमेतद् यद् अतिशयप्राचीनतमे समये प्रथमतीर्थङ्कर श्री ऋषभदेवसमये या प्रजा आसीत् सा युग्मधर्मिणी, तासु युग्मधर्मिणां पुरुषाणां या भार्या आसन् तासां कुक्षौ युगलमेव अजायत - एकः पुत्रः, एका च कन्या, नान्यत् किमपि संतानान्तरम् । अत एव स पुत्रः बन्धुरहितः - भ्रातृविहीनः । Jain Education International ५. कु० पक्षे न आलस्यघटना इति पदद्वयम् । आलस्यस्य घटना आलस्यघटना सा कुमारेन, अर्थात् कुमारः आलस्यरहितः । गर्भरूपपक्षे तु नालस्य घटना इत्येवं पदद्वयम्, गर्भनालस्य घटना | गर्भनालं प्रसिद्धम् । ६. मात्रा - जनन्या भूषितस्यापि सूनोः दुष्टजनप्रसक्तं दृष्टिदोषं हर्तु श्याममषीतिलकमण्डलं विधेयम् इति लोकप्रसिद्धम् । काचिद् माता श्याममत्रीतिलकमविधाय सूनोः कण्ठे श्यामं सूत्रमपि विन्यस्यति इत्यपि लोकविदितम् । ७. आत्महितवाञ्छुना - स्वहितैषिणा । 1 'स्येव गुण खल | 2 हन्तुं का ख । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy