________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
१५३ बहुधा-न्यायस्थधियः प्रकटितदूष्यादिदूषणादिविदः । व्यवहार-निश्चयपरा वणिजः प्रामाणिका यत्र ॥३७७॥
आदिवर्णानुगं अस्याऽमन्त्यवर्ण रमाश्रितम् ।
द्विधा ध्यायन् समस्तोऽपि प्रायो लोकः प्रमोदते ॥३७८॥ ततो विचारयतु महाराजः, सोऽपि मिथिलाधिपतिः कदाचिदिह हानिगोचरचारी भवति यन्निबर्तननिमित्तमप[र]साहाय्यमपेक्षते, वृद्धौ पुनरस्य कमलखण्डस्येव सदामोदरसिकान्तःकरणा मधुकरा इव कति न भूपतयः सन्निधिवर्तिनः । आगमनप्रयोजन पुनर-य ऐष शेषधवलकायो हस्तिमलस्तब पत्तने साम्प्रतं वर्तते, स पुरन्दरस्येवाभमुवल्लभो नमिनरेन्द्रस्यैव । स च किरीट इव मस्तकस्य सस्यैव राज्ञो विराजते मान्यस्य । तस्य संगतः सज्जनसमागमयुक्तः स राजन्यगणः स्फुरति । अत्रापि यः अनङ्गवत् स कथं सदङ्गसंगतः स्फुरति ? इति विरोधः । अर्थतश्च परिहारो दर्शित एव । अत्र स्फुरति इति सप्तम्यन्तं तथा क्रियापदम् अपि इति उभयथा व्याख्येयम् । __अत्र 'असौभाग्यभरे' इति 'सौभाग्यभरे' इति च शब्दापेक्षया तथा अर्थापेक्षयाऽपि
धः । शब्दापेक्षया विरोधः स्पष्ट एव । अर्थापेक्षया तु-असौभाग्यभरेऽपि अयं नृपः कथं नारीषु मनोरथक्रमं पुष्णाति । परिहाररतु 'असौ भाग्यभरे' इति विभाग स्पष्ट एव ।।
१. यत्र मिथिलानगर्या ये वणिजः ते प्रामाणिकाः तथा बहुधा-बहप्रकारेण न्यायस्थचियः न्याययुक्ताः, अथवा बहुधान्यानाम् अनेकप्रकाराणां धान्यानाम् आये स्था स्थिरा धीः येषां तेबहुप्रकारधान्यप्राप्तौ स्थिरबुद्धयः । अत्र 'बहुधा+न्याय' इति तथा 'बहु+धान्य+आय' इति च पदविभागो द्विधा । तथा दूष्यादिकानां-वस्त्ररूपपण्यवस्तुसमूहानां दूषणादिक-दूषणगुणादिकं विदन्ति ।
__ अथवा यद् अस्ति दूष्यं-गह-निन्दनीये तस्य दूषण घिदम्ति-जानन्ति । आदिशब्देन यद् अस्ति अदृष्यम्-अगट तस्य गुणमपि विदन्ति, अत एव ते वणिज: व्यवहारपरायणाः, तथा धर्मदृष्टया निश्चयपरायणाः। जैनपरिभाषायां 'निश्चय' शब्दः आध्यात्मिकप्रवृत्ति द्योतयति । तथा ते वणिजः व्यवहारस्य-स्वव्यवसायस्य निश्चये परायणाः, न तेषां व्यवहारः अनिश्चितः इति ।
२. यत्र समस्तोऽपि लोकः 'अहम्' इति पदं ध्यायन प्रायः प्रमोदते इति श्लोकस्य भावः । 'अहम् ' पदे आदौ अकारः ततः तद् आदिवर्णानुगम् अस्ति, तथा अन्ते 'हम् ' वर्णः, स च 'र'कारयुक्तः, एवम् अनेन पद्येन 'अहम् ' इति पदं सूचितं प्रतिभाति ।।
अस्य श्लोकस्य अन्वयः इत्थम्-यत् पदम् आदिवर्णानुगम्-अकारानुगम् , 'हम्' इति मनश्यवर्णश्च यत्र रकार आश्रितः तादृशम् अहम् इति पदं ध्यायन् इत्येवम् अनेन पद्येन 'भहम् ' पदं सूचितम् । द्विधा-शब्दस्य जापेन, अर्थस्य च चिन्तनेन इति 'द्विधा'पदस्य भावः प्रतिभासते । अत्र रम्+आश्रितं, तथा रमा+आश्रितम् इति पदद्वयम् । तथा च 'रमाभितम् । इत्यनेन लक्ष्मीआश्रयभूतम् इत्यपि भावः । अत्र 'रमाश्रितम् ' इति पदं पुनरपि आवर्तनीयम् ।
1 °विधः ख । 2 "मपेक्ष्यते डे। 3 एव शे° डे।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org