________________
श्रीजिनभद्रसूरिरचिता
[पञ्चमः तस्य मार्गणाय प्रहितोऽस्मि देवेन । अतः परं यदुचितं तत् स्वयमेव महाराजः करोतु । राजा तु तदुद्धतोर्जितगर्जितमाकर्ण्य स्मित्वा तमुद्दिश्य सचिवमुवाच-'मतिधन ! दृष्टाऽस्य वाचालता, यदि वा वीक्षितो मिथिलावासिनो जनस्याहङ्कारः। किलास्माभिरभीष्टतमस्य नमिनरेन्द्रस्य प्रधानपुरुषोऽयमिति समुचितमभिरुचितं च समस्ताभ्युदयान्वितमागमनप्रयोननमनुकूलमेवानुयुक्तमस्य पुनरखिलमपि निजहृदयविपरीतभावेन केनापि प्रतिकूलमेव परिणतम् ।' सचिवेनोदितम्- 'देव ! सत्यमेवेदं परमहमेवं सम्भावयामि । नूनमस्य नरेन्द्रोऽप्यहङ्कारसागर एवात एवासावपि तन्मान्यस्तत्स्वभावः। प्रायेणानुजीविनः स्वामिनोऽभिप्रायानुरूपा भवन्तीति । वरं मदिरान्धबुद्धिरेव न पुनरितरः, स हि वराको विकलो नैकान्तेन दुविनीत एव स्यात् किन्तु विनीतोऽपि' क्वापि क्वापि दृश्यते । लक्ष्मीमदान्धबुद्धिः पुनरात्माकूतेनाविकलोऽप्येकान्तेन दुर्विनीततामेव पुरस्करोति । तथा हि
सर्वज्ञक्रमपङ्कजभ्रमरिकाभक्तिर्यदीयानघा सच्चारित्रपवित्रसाधुवचनैः सम्पूर्णकर्णश्च यः । सिद्धान्तकसुधानिधानरसिकः श्रद्धाविशुद्धकधी
रेश्वर्यादिमदावलेपवशतो निन्द्यो दशास्योऽप्यभूत् ॥३७९॥ मपि च,
विदलितमदावद्या विद्या सदैव निगद्यते मदयति यदा सापि क्षिप्रं किलाक्रमिकं जनम् । वदति मदिरासोदों यां जनः कमलालयां.
मदयतु कथं नन सैषाऽस्खलत्प्रसरा तदा ॥३८०॥ तदनन्तरं पुनरुक्तं महीपतिना-'भो ! राजकार्यैकस्यूत ! दूत ! समाकर्णय निर्णयम्
न्यासीकृतस्तेन न. वारणोऽसावानीयतास्मान्न च मार्गयित्वा ।
अस्माभिरादायि पतिवरावद् युक्त्या कथा दूत ! समर्प्यतेऽस्य ॥३८१॥' ततः समस्तमपि सरहस्यं नरेन्द्रवचनमवगग्य स दूतो जगाद--'महाराज ! नाप्रसादो विधेयः प्रतिवादिनेव वादिनो वचनं प्रति, मैयापि भवतामुपन्यासं प्रति प्रत्युपन्यासोऽवश्य विधेयः । कथं नाम प्रस्तावापतितं मन्दमतिरपि नोत्तरयति । नमिनरेन्द्रः स्वकीयवारणेन्द्रमार्गणरूपामनीति प्रस्तुवानो न कथमक्रमिकः ? क्रमिकः पुनरसावेव यः सकलविपुलातले
1 °पि कोऽपि खल। 2 लक्ष्मीमदिरान्ध डे। 3 ‘कान्तदुख । 4 राज्यकार्यः स्यू डे। 5 °मया भडे । 6 °मिकः पु डे विना ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org