________________
उच्छ्वासः ]
. १५५
ज्ञाततत्त्वैर्मुनिभिरपि पररमणीरमणलालसमानसानां विपाकवर्णनावसरे रावण इव प्रतिसभ
मित्थमुदाह्रियते तद् यथा
तदनु च मृत एव -
अपि च,
मदनरेखा-आख्यायिका
काममहितां प्रतिपद्य सद्यः सोदर्यमार्यचरितं विनतं निहत्य |
प्रीतो जगाम निजधाम विवृद्धकामो दष्टश्च दुष्टभुजगेन कुकर्मणेव ॥ ३८२॥
संप्राप पापभरपूरितचित्तवृत्तिः, पङ्कप्रभां नरकभूमिमहो ! चतुर्थीम् । भोः ! भोः ! स एष परदाररिरंस्यापि दुःखास्पदं मणिरथः सुतरां बभूव ॥ ३८३ ॥
Jain Education International
वह्निः शोषयति जलं धूमः पोषयति जैनकमपि तस्य ।
अथ च द्वावपि जातावेकस्मादिन्धनादेव ॥ ३८४॥
तस्माच्छीलं प्रति न कारणं क्रमाक्रमौ अमृतयोनेरपि रत्नाकरतः श्रूयते कालकूटोत्पादश्च । अपि च,
या प्रातिवेश्मकगृहे गृहतः स्वकीयात्
कार्यात् कुतोऽपि दयिता दुहिता स्नुषा वा । कस्याप्यगच्छदवनीश ! पतिवरा सा
युष्मन्मते तदतिचारुरसौ विचारः १ || ३८५ ॥
ततः सुतरामुच्चावचवचनेन प्रगल्भमानं तं दूतमवलोक्य बैद्धः खल्वयमवध्यतया धृष्टश्च तदसौ वचनमात्रेणापि किं न निराक्रियते इति मनसिकृत्य राज्ञा तेन मन्त्रिणाऽभ्यधीयत
१. जनकमिति जलजनकस्य - जलपितुः - मेघस्य । मेघो हि धूमयोनिः इति धूमो जलस्य जनकः । कोशेषु 'मेघ'स्य पर्यायनामसु 'धूमयोनिः ' शब्द: प्रसिद्धः । धूमो योनिः अस्य इति च तस्य व्युत्पत्तिः । एतया व्युत्पत्त्या धूमः जनकम् अपि जलजनकं - मेघं पोषयति इति स्पष्टम् । २. अत्र प्रतौ 'वष्टा' अथवा 'वष्ट:' इत्येवं पठितुं शक्यम्, परन्तु अर्थविचारणया 'बद्ध : ' इति कल्पितम् अथवा 'बण्ड' इत्यपि अथवा 'वण्ट' इत्यपि च संभवेत् । 'बण्ड' शब्द ः भाषायां प्रसिद्धम्, 'बांडो' इत्यर्थ सूचयति । 'वण्ड' शब्दश्च भाषायां प्रसिद्धः 'वांढो' इत्यर्थः, तथा भृत्यं वामनमपि च सूचयति ।
1 ° मुदाहरणमुदाह्रियते, तद्यथा डे । 2 संप्राप्य पा खल । 3 'बेक' ख ।
For Private & Personal Use Only
an
www.jainelibrary.org