SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [पक्रमः 'रे बराक ! नूनमनया वाचाटतया किराटपाटके तन्निकटे वा सुचिरमुषित्वा राजपुरुषो जातोऽसि तेनैव तदनुरूपैरुदाहरणैः प्रगल्भसे? । हस्तिनो हस्तसंज्ञावसरे रासभहस्तसंझायाः कौतस्कुती सम्भावना ? । ननु रे ! मुमूर्षों ! मूर्ख ! कथमेतदपि न स्मरसि रविभोज्या नभोलक्ष्मीः पतिभोज्या पतिव्रता । सुरेन्द्रभोज्या नाकश्रीर्वीस्भोज्या वसुन्धरा ॥३८६॥ तदलं वाचालतया, केनापि हन्यसे दुर्मखतथा । गम्यतां निजस्वामिसन्निधौ । कथ्यता तदने यदभिरुचितं निजचित्तस्य' इति वदति मन्त्रिणि यावन्न कश्चिदर्धचन्द्रयति तावदपसरणमुचितमिति भयतरलविलोचनः सत्वरमुत्थायागच्छदतुच्छप्रयाणकैः स्वनगरम् , उपेत्य नृपमन्दिरं तदनुवेत्रिणा ज्ञापितः । जगाम नृपसन्निधिं विनतवांस्तदंहिद्वयम् ॥३८७॥ निविश्य च यथोचिताऽऽसैनि जगाद निःशङ्कधीः । विपक्षपरिभाषितं सकलमेव यद्वाधिकम् ॥३८८॥ राजा तु तेन दूतवचनेन महान्तं कोपमारूंढः सञ्जातः समरोत्सुकः । शोभते हि क्षमायुक्तो यतिरेव न भूपतिः ॥३८९।। कुपितं वीक्ष्य भूपालं दूतः पुनरवोचत । 'देवाहमेव मन्त्रीह समाकर्णय निर्णयम् ॥३९०॥ अविरलमदजलमदकलनवजलधरपटलपिहि तसधरधर ! । खुरपुटसुघटितपटुपटहरटितवरतुरगगणकलित ! ॥३९१॥ १. किराट-किरातशब्दौ पर्यायौ म्लेच्छजातिवाचकौ च । पाटकच भाषायां 'पाडो' इतिरूपं भावं सुचयति---'पाटो' इति च 'वाणियानो पाडो' इत्यादि । कोशे तु 'पाटक'शब्दः ग्रामाधै सूचयति “पाटकरतु तदर्धे स्यात्' [ हैम० कां० ४, श्लो० २८] । १. 'आसन् 'शब्दस्य सप्तम्या एकवचनम् 'आसनि' इति । ३. अविरलमद जला ये मदकलाः ते एव नवजलधराः हस्तिनः तेषां पटलेन पिहिता सधरधरा येन सः तस्य आमन्त्रणे एकवचनम् च सधरधर ! धरः पर्वतः, धरेण सहिता सधस, सधरा चासौ धरा च सधरधरा । “धरः कूर्माधिपे गिगै" इति हैमे अनेकार्थे । ____ 1 तेन त° डे । 2 मूर्पक क ख । 3 या मा केनापि डे। 4 °याऽतुच्छप्रयाणकैस्तदनन्तरम् डे । 5 रूपः स खल। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy