________________
उच्छ्वासः] मदनरेखा-आल्यायिका
जितरविस्थकथ ! सुललितपथधनस्थ ! मथितसकलरिपुहृदय ! । विघटितविकटकरेटतटगजघट ! वरतरसुमटनतचरण ! ॥३९२॥ कुरु देव ! चन्द्रयशसं प्रति संप्रति सर्वथा विजययात्राम् । स्वेनैव हस्तिना सह नन्वानय हास्तिकं तस्य ॥३९३।।' इत्थं दूतवचः श्रुत्वा भूपं वीक्ष्य रणोत्सुकम् ।
अन्योऽन्य मन्त्रयामासुराशु वीस: प्रमोदतः ॥३९४॥ दिनमद्यतनं सुविभातमहो ! श्रुतिमेति यदद्य कथापि युधः । प्रभुकार्यकरे विहिते समरे सफलं तु भविष्यति बाहुबलम् ॥३९५॥ अस्माकमानृण्यमुपस्थितं तदा स्थानादितोऽगात् स यदेव वारणः । अस्त्वेष तस्मात् कुलदेवतापदे प्रसादपात्रत्वफलप्रदानतः ॥३९६॥ दूत एव रणरङ्गहेतवेऽस्माकमेष उपकारकस्ततः । भूपतिर्यदमुनेव सांप्रतं वीरवृत्तिषु कृतः कृतोद्यमः ॥३९७॥ अन्यथा प्रभुरयं स्मरैकधीः किं न धीरललितः श्रुतस्त्वया । पुण्यसिद्धिपरिपूर्णवाञ्छितो मन्त्रिमस्तकनिवेशितोदयः ॥३९८॥ तदधुना समरं प्रति सत्वराः कुरुत हन्त ! समस्तमुपक्रमम् ।
भवति येन नरेश्वस्सासनं किल यथा क्षुधितस्य निमन्त्रणम् ॥३९९॥ अथ तेषां महावीराणां तादृशीं रणरङ्गरसिकतां करतलवर्तिनी प्रस्तुतप्रयोजनसिद्धिं कलयन्
निजसचिवमुवाच भूमिपाल: 'कलयसि चेतसि वीरवृत्तिमेषाम् ।
स्पृहयति ममापि शासनं या समरविधि प्रति लम्पटा नितान्तम् ।।४००॥ तदमीषां चित्तोत्साह एव पवन-शकुनौ तत् किं न प्रदापयसि प्रयाणढक्काम् । कि न प्रगुणयसि विजययात्राये सेनापतिम् ?' इति वदति राज्ञि प्रगुणयति च मन्त्रिणि समागतोऽनाहूत एव मौहूर्तिकः । कथित चानेनानुयुक्तेन- 'देव ! प्रदीयतां प्रयाणकं सकलसिद्धिहेतुरेष मुहूर्तो वर्तते ।' विज्ञप्तं मन्त्रिणा-'देव ! समासन्ना भवतामभिमतार्थसिद्धिः । तेनेवानुकूलदेवेनेव विनैव यत्नमेष निखिलोऽपि वाञ्छितसमुदयः सन्निधीयते । ततः क्रियता मौहर्तिकवाक्यम्' इति ।
१. करटः करिगण्डस्थलम् ।
1 'तरविरटवरसुभट नतचरण ! ल। 2 तकवि ख। 3 वरमुभट न। 4 °रणोन्मुखम् ख। 5 तं यदा ख। 6 स दैववा ल । 7 नी वीक्ष्य प्रस्तुडे। 8 नवृत्ति क डे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org