SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ पञ्चमः प्रदापितप्रयाणढकः समुत्साहित वीरचकः सम्पादितसकलमङ्गलाचारक्रमः पुरस्कृतनयविक्रमः प्राप्तो विजययात्रायै पुरगोचरं नरेन्द्रः । १५८ वारणा ऽश्व-रथ- पत्तिभूषिता दुर्द्धराश्वतरे - सैरिभोक्षका । उष्ट्रयूथ-शकटैर्निरन्तरा तत्क्षणाच्च मिलिता पताकिनी ॥ ४०२ ॥ चलितस्ततो नरेन्द्रः कदाचिदपि नैवमसौ दृष्टपूर्वः प्रतिष्ठमानो राजपाटिकायामिति सकौतुके विज्ञाय यात्रा विनाभूतचिह्ननिरीक्षणेन प्रस्तुतनिर्णयैः किमहो ! सोऽपि कोपि समस्ति यस्योपरि देवः स्वयमेवायमुपक्रमत इति संदिहानैरपहृतगजराजदिगनुमानप्रतिष्ठितै सुदर्शनपुरप्रयाणकरहो ! चन्द्रयशसा नयनिपुणेनापि न शोभनमनुष्ठितमिति कृतशोचनैरसमानविग्रहारम्भिणस्तस्य ‘मणिरथक्रमिका एव सचिवाः' इति वाचालैनूनमसौ न सामान्यः कथमन्यथा तं प्रति यातीति विहितगमनप्रतिष्ठैरहो ! कीदृशो रणारम्भ इति निरीक्षितुकामैरनेकैर्वार्णिजकैरपि द्विजातिभिरपि नागरिकैरनुगम्यमानः पुरः पुरः शकुनैराहूयमान इव पवन प्रेर्यमाणमिव .. यानपात्र प्राप्तो निजजनपदजलधितीरं नरेन्द्रः । देश - पुर- प्रामाणां क्षेत्राणामथ चतुष्पदादीनाम् । यः कश्चिदुपद्रवमात्रमिह करिष्यति हि परराज्ये ॥ ४०२ ॥ नूनं स निग्रहपदं विपक्ष इव लप्स्यते स्वपक्षोऽपि । यः समरगतः प्रहरति स एव खलु युज्यते हन्तुम् ॥ ४०३ ॥ इत्याज्ञातो राज्ञः प्रविशत्यपि शत्रुजनपदं सेन्ये । सेन्धनं विनोपद्रवं च न चकार कश्चिदपि ॥ ४०४ ॥ १. अश्वतरः भाषायाम् 'खच्चर' इति प्रसिद्धः । स गर्दभपितृकतया अश्वायां जाया राजातहास: अश्वतरः इति हैम-विवरणम् 'अश्वतरशब्दे' | २. सैरिभ+ उक्षका । सैरिभः- महिषः । उक्षकाः- वलीवर्दाः । Jain Education International ३. पत: किनी - सेना । ४. अविनाभूतानि नियततया सहचारीणि यथा अग्नि विना धूमस्य न संभवः, ततः धूमः अग्नि अविनाभावी तथैव यानि चिह्नानि यात्रां विना न भवन्ति, सत्यां यात्रायामेव संभवन्ति तादृशानि चिह्नानि नियतसहचारीणि अविनाभूतानि । ५. पुरः पुरः शकुनैः - अग्रे अग्रे जायमानैः शकुनैः । ६. 'घास' शब्द: यथा प्राकृत संस्कृतभाषयोः सुप्रसिद्धः तथा लोकमानायामपि तादृश एव 1 पूर्व डे । 2 'विजयया' डे । 3 °त कृतशोच डे । 4 णिनिकै 5 नागरकै ख । 6 पुनः पुरः श डे । 1 For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy