________________
१५९
उच्छ्वासः ] मदनरेखा-आख्यायिका
यतःप्रभृति चक्रेऽसौ प्रयाण मिथिलेश्वरः । ततःप्रभृति समाामपरश्चन्द्रयशा अपि ॥४०५॥ कम्पयन्निव भूचक्रं पातयन्निव पर्वतान् । शोषयन्निव पाथोधीन् सम्मुखीनश्चचाल सः ॥४०६।। . न केवलं बलं तस्य न माति स्म महीतले । वीराणामिच्छतां युद्धं प्रमोदस्त्रिजगत्यपि ॥४०७॥ निमित्त-शकुनादीनां बाधकत्वात् पदे पदे । बलाद् व्यावृत्त्य नीतोऽसौ राजधान्यां महत्तमैः ॥४०८॥ नूनं दुःशकुनावली नमिरिव प्रत्यर्थिनी वर्तते नूनं मन्त्रिमहत्तमाः समरतस्त्रस्ता वराका अभी । तेनास्माकमरेक्षत ध्रुवमृणाद् मोक्षो भवन्मृत्युतो भूपालस्य पुनर्जयस्तदधुना कस्याग्रतः कथ्यते ? ॥४०९॥ इत्थं वीरा वदन्तोऽपि बलादपि निवर्तिताः ।
राज्ञामाज्ञाऽन्यथाकर्तु म शक्या केनचिद् यतः ॥४१०॥ तथापि महीपतिना तथा तेषां मानः पुपुषे यथा सकलमपि विषादविषभुत्सृज्य जाताः प्राकारस्थरणरसिकाः प्रदत्तासु प्रतोलीषु, दृढीकृतेषु यन्त्रेषु, धानुष्कपूर्णासु विद्याधरीषु, राशीक्रियमाणेषु प्राकारोपरि पाषाणगोलकेषु । समागत्य नमिनरेन्द्रण समन्ततः समरुध्यत नगरम् , विहिता प्रतियन्त्रादिसामग्री, प्रवृत्तमायोधनम् तथापि प्राकारस्थवीरधाराधरशरधाराधोरणीनामनवच्छिन्नतया न कश्चिदासन्नो भवितुं शशाक । केवलं पवनस्येव मध्यस्थस्य विश्वस्यापि योगिनेव तेन सर्वथा रुरुधे बहिष्प्रचारः । एवं च कतिपयेषु वासरेषु प्रवर्तमाने विग्रहाग्रहेप्रसिद्धः । अमरकोशेऽपि 'घासः' इति शब्दो निर्दिष्टः । अयं शब्दः अतिप्राचीनोऽपि अविकृत एव अद्ययावत् समागतः ।
१. अस्य स्पष्टार्थो नावगम्यते, तथापि 'एतेनास्माकमरक्षतां ध्रुवमृगाद् मोक्षो भवेद् मृत्युतः' इत्येवं संशोधितः पाठः कमपि अर्थ गमयितुं समर्थ इति शेषं समग्रं तु पद्यं विद्वद्वरेण्या विचारयन्तु।
1 'रक्ष्यत डे । 2 'क्षो मयो मृ डे । 3 °दमुत्सृज्य ख। 4 प्राकारवीर डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org