Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 239
________________ १६० श्रीजिनभद्रसूरिरविता [ पश्चमः परमुपरि विधाय स्वामिकार्य विधातु खनति सुभटवर्गे सर्वतः शालमुलम् । क्षिपति करसमूहं भानुवत् पौरखीरे हतसुभटसमूहं तीव्रनाराचवृन्दम् ॥४११॥ तदानीं सा सुव्रता विमानैरिवानुत्तरः पञ्चभिरपि महाव्रतैः,वेयैकलक्ष्मीभिरिव निरस्तविषमविशिखविषविकाराभिर्नवभिरपि ब्रह्मचर्यगुतिभिः, कल्पस्थितिभिरिवोत्तरोत्तराभिदशभिरपि भावनाभिः, चन्द्रादिज्योतिप्कैरिव प्रकाशसुभगैः पञ्चभिरपि सदाचारः, भंवनपतीन्द्ररिव क्षमाधारविशत्या समाधिस्थानः,व्यन्तरैरिव सदासन्निहितैरष्टभिरपि प्रवचनमातृभिः सततमपि सेव्यमाना यथोचितविहारेण विहरमाणा तमजयोः समरसंरम्भं कर्णोपकर्णिकया समाकर्ण्य परस्परमत्सरपाशरुद्धगती नरकपञ्जरकोटरे वराकाविमौ सँपक्षावपि पक्षिणाविव मा स्म पततामिति सकरुणा प्रवर्तिनीमनुज्ञाप्य कतिपय-तपस्विनीभिः सह समागतैव नमिराजद्वारे, १. विमानानि 'अनुत्तर'नाम्ना प्रतीतानि जैनपरिभाषायाम् , तानि च सर्वोत्तमानि, अवलोके न तेभ्यः किनपि विमानम् उत्तरम् उत्तमं वा वतते । महाव्रतानि अपि अनुत्तराणिसर्वोत्तमानि, नास्ति उत्तरम् उत्तम येभ्यः तानि अनुत्तराणि सर्वोत्तमानि इति विमान-महाव्रतयोः साम्येन उपमान-उपमेयभावः । २. ग्रैवेयकेषु तत्तत्स्थानप्रभावेण विषमविशिखस्य कामस्य विषविकारो यथा न विद्यते तथैव नवमु ब्रह्म वर्यगुप्तिषु संयमप्रभावतः विषमविशिखस्य विषविकारो न विद्यते । एततस्थाननिवासिनो देबा विषयविकारत्यागपूर्वकं ब्रह्मचारिणो न सन्ति परन्तु तेषां ब्रह्मचर्य तत्स्थानप्रभावतः । ३. कस्पस्थितिः द्वादशधा उत्तरोत्तरा पौर्वापर्येण, एवं भावना अपि द्वादशैव उत्तरोत्तराःउत्तमोत्तमाः, अथवा उत्तरोत्तरानुक्रमेण, एवम् अनयोः उत्तमतया संख्यापेक्षया च साम्यम् । ४. ज्योतिष्कदेवाः सूर्यादयः पञ्चप्रकाराः प्रकाशसुभगा:-मनोहराः । एवं सदाचारा अपि पञ्चप्रकाराः प्रकाशमुभगा:-आत्मप्रकाशसुभगा इति । ५. भवनपतीन्द्रा दश दश, एवम् उत्तर-दक्षिण दिगपेक्षया विंशतिः । समाधिस्थाननि अपि विंशतिः इत्येव अनथोः संख्यासाम्यम् । क्षमाधरा इति-समाधिस्थानानि, क्षमायाः-सहिष्णुतायाः आधाररूपाणि । ६. व्यन्तराः पिशाचादयः अष्टौ, प्रवचनमातृका अपि अष्टौ, यथा व्यन्तराः सदासंनिहिताः तगा प्रवचनातृका अपि सदासंनिहिताः । तासां सदा असंनिहितत्वे संयमाभावः, अतः संयमयुक्तानां व्यक्तीनां तासां संनिहितत्वं बोध्यम् । ___७. सपक्षी अङ्ग जौ-समानः पक्षः ययोः तौ सपक्षी परस्परबन्धुरूपौ एकपितृको । पक्षिणी सपक्षी-पक्षिणी पक्षण सहितौ सपक्षी-सपतत्री-सपिच्छो च । 1 मातृकाभिः ख विना। 2 वपि मा स्म ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304