Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
उच्छ्वासः]
मदनरेखा-आख्यायिका बहुविध-बो-धः-कृतः सकलविषयचिन्तो-ऽवनैकधीर्यस्य । सचिवोऽरिवधूगण इव कृशो-दरीहृदयमधिवसति ॥३७१॥ राज्ये पद्मरथस्यापि समृद्धा मिथिला परम् ।
राज्ये श्रीमन्नमेरेषा स्वर्गलक्ष्मी जिगीषति ॥३७२॥ तथाहि
सौराज्यातिशयोदितोदितधनप्राग्भारसुस्थप्रजारत्न-स्वर्णविचित्रभूषणगणध्वंस्तान्धकारोदये । सूर्याचन्द्रमसावह निशमधो यस्यां दधाते कैरान् भूपाल्लब्धुमिव प्रतापमसमं सौभाग्यमेणीदृशः ॥३७३॥ सदामोदे लक्ष्मीकुलगृह इवाम्भोजसरणौ दधत्यां राज्ञोऽपि प्रमदमसमं कोमलकरैः । स्फुटा चैत्ये धूमावलिरगुरुकर्पूरदहनोस्थिता यत्रोड्डीना स्फुरति मधुपालीव गगने ॥३७४।।
किञ्च,
१. अत्र श्लोके सचिवः उपमेयम् , अरिवधूगणश्च उपमानम् । तयोः विशेषणानि एवम्बहुविधबोधः कृतः, सकलविषयचिन्तः, अवनैकधीः एतादृशः सचिवः कृशोदरी हृदयम् अधिवसति । अरिवधूगणः कीदृशः ? अरिवधूगणः बहुविधवः, अधःकृतः, सकल विषयचिन्तः, वनैकधीः । सचिवः बहुविधबोधयुक्तः-विविधशानयुक्तः, अरिवधूगणः बहुविधवः अरिंगणस्त्रीषु नैकाः स्त्रियः विधवाः-गतभर्तृकाः सन्ति । अतः स बहवः विधवाः यस्मिन् स बहुविधवः । अत्र व-वयोरैक्य ज्ञेयम् । सचिवः कृतः-कृतकृत्यः-परिपूर्णकार्यकृत् । अरिवधूगणः अधःकृतः तिरस्कारं नीतः ।
सचिवः सकलविषयचिन्तः-समग्रदेशचिन्ताकारी । अरिवधूगणः सकला ये विषयाः शब्दरूप-रस-गन्ध-स्पर्शाख्यास्तेषाम् अलाभात् तत्संबन्धे चिन्ताविधायकः । सचिवः अवनैकधी:अवनम्-पालनम् , प्रजापालनकमतिः । अरिवधूगणः वनैकधी:-बने एव एका धीर्यस्य, तासां वनवासित्वात् । सचिवः कृशोदरीहृदयम् अधिवसति-कृशोदरीणां-श्यामानां हृदयम् अधिवसति । सचिवस्य स्वस्त्रीवल्लभत्वात् । अरिवधूगण:-यथासमयं भोजनादिसामग्रीणाम् अलाभात् कृशः विशेषतो दुर्वलत्वेन क्षीणः दरीहृदयं-गुहाहृदयम्-गुहामध्ये अधिवसति । सचिवपक्षे 'कृशोदरी , इति अखण्डम् । अरिवधूगणपक्षे 'कृशः दरी' इत्येवं भिन्नपद त्वम् ।
२. जिगीषति-जेतुम् इच्छति । ३. किरणान् ।
४. 'लक्ष्मीकुलगृहे' इत्यस्य सदामोदे विशेषणम् । सदा आमोदः हर्षः परिमलो वा यस्मिन् तादृशि लक्ष्मीकुलगृहे । राज्ञोऽपि कोमलकरैः असमं प्रमदं दधत्यां मिथिलापुर्या सदामोदे
1 कृतः शकल डे। 2 °ला पुरी ला। 3 ध्वस्तेऽन्ध ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304