Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 228
________________ उच्छ्वासः ] मदनरेखा - आख्यायिका क्षमनीयत पककथापि यत् यदखिलोत्कलिकापि निराकृता । विकटकोपशमोऽपि यदादृतो बभुरतः सरितश्चरणोचिताः ॥ ३६२ ॥ मोंसलोलुपरुचि मधूद्ध तां बिभ्रताऽपि शरर्तुनाऽमुना । पापिनेव परमार्थवेदिना मार्ग एव सुतरां पुरस्कृतः ॥ ३६३ ॥ तदेतत् पठ्यमानमाकर्णयतः कर्णविवरमविशद् अवनिपतेर्महान् कलकलः । 'किमेतत् ' इति यावत् कमपि समादिशति तावदागत्य स्वयमेव विज्ञप्तं हस्तिसाधनिकेनस्मृत्वा विन्ध्याचलक्रीडां मदान्धो गन्धसिन्धुरः । बलादालानमुन्मूल्य हत्वा हस्तिपकानपि ॥ ३६४ ॥ सूर्याचन्द्रमसौ समौ समरुची कृत्वा निवेश्याग्रतयामुदयक्षमाघर इवास्थाद् यस्तव प्रीतये । C १. अधुना शरत् समय समाप्तौ पङ्कस्य कथा अपि क्षयं प्राप्ता न कापि कर्दमस्य नामापि श्रूयते - कर्दमाभावो जातः । अखिला उत्कलिका जलतरङ्गावली अपि निराकृता-अस्मिन् समये विरलजलत्वेन जलस्य उत्कलिका वापि न दृश्यते, अत एव विकास विशालस्य कस्य जलस्य उपशम आहतः, तथा विकटस्य कोपस्य पित्तप्रकोपस्य उपशम आहतः । निर्मलजलस्य अल्पतया सरितश्च चरणोचिताः पादप्रमाणा वभुः - शोभिता जाताः । अथवा सरितः अल्पजलत्वेन चलनयोग्या इति । अत्र र लयोः ऐक्यं ज्ञेयम् । २. मांसल+उलुप+रुचिम् । उलुपाः - वीरुधः - गुल्मिन्यो लताः । कोशेषु सर्वत्र लतावाची ८ उलप 'शब्द एवं परन्तु अत्र ग्रन्थकर्त्रा ' उप 'शब्दः व्यवहृतः । एकः उलूपिन् ' शब्दः विशिष्टरूपं मत्स्यं सूचयति परन्तु नात्र स संगच्छते, तथा नौवाचकोऽपि ' उप ' शब्दो विद्यते सोऽपि नात्र घटते । शरत्समये उलपाः - लताः मांसलाः भवन्ति इति हेतो:, अत्र ' उप ' शब्दो गृहीतः । मांसलानाम् उलपानां रुचि - कान्ति, विभ्रता - दधता । तथा मधुना - पुष्पमधुना उद्धतां तां रुचि विभ्रता शरदर्तुना इति अन्वयः । शरदा+ऋतुनाशरदर्तुना । पापिनेव पापिपक्षे मांसे लोलुपा या रुचिः, तां बिभ्रता, तथा मधुना मद्येन उद्धतां रुचि विभ्रता पापिना । मार्ग एव शरत्पक्षे मार्गः - मार्गशीर्षमासः एव पुरस्कृतः । पापिपक्षे मार्गः - मृगः, मृग एव मार्गः हरिणः एव पुरस्कृतः । परमार्थवेदिना अत्र ' अर्थ 'शब्दः निवृत्तिं सूचयति ' शरत्समयो निवृत्त इति ज्ञेयम् । पापपक्षे ' अर्थ 'शब्दः प्रयोजनं सूचयति । " अर्थो हेतौ प्रयोजने निवृत्तौ " इत्यादि हैम- अनेकार्थे । ३. चूडायाम् - हस्तिचूडायाम् सूर्याचन्द्रमसौ चित्रितौ इति आशयः । Jain Education International १४९ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304