Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
उच्छ्वासः ] मदनरेखा-आख्यायिका
१२७ ' साधु खेचरेन्द्र ! साधु, परमीदृशाचरणे समाकर्णय कारणम् । सुदर्शनपुरे मणिरथी राजा । तस्याहं सोदों युवराजः । स चाहं मधुसमये राज्ञा केनापि पूर्वमयबै रेण प्रमदवनमुपेत्य पादपतितो निहतः कन्धरायां करालेन करवालेन । तेन च प्रहारेण दोयमानचित्तस्य गलितबरस्यापि ममोल्लासितः कोपाटोपः । तथाहि--
ने-तापकरणक्षमः सगुणपुण्डरीकरहो !
न करवहितो जडप्रकृतिरैक्षि दोषोदये । कलोपकरणोद्यतः सुनयनेत्र-सौख्यप्रदः
कलत यति मण्डल सकलमेव राजाऽपि धिम् ॥३१०॥ तर्दधुना समाप्ताऽस्य वराकस्य कथा । यतो गतोऽसौ सम्पूर्णमण्डलोऽपि ममारख
१. [न तापेत्यादिवृत्तम्-दोषोदये-अन्यायोत्पादे, अवहितः-सावधानः पुरुषः । कः ? सगुणपुण्डरीकै:-गुणवतप्रधानैः पुरुषैः । जडप्रकृतिः-मखिस्वभावः, ने-नैव. ऐक्षि-पृष्टः । अपि नु सोरपि तैरशतया ज्ञातः, एवंभूतोऽसौ नताना-प्रणतानाम् , अपकरणक्षमः-अपकारसमर्थः । कस्य-सुखस्य मस्तकस्य वा-लोपकरणे-विनाशे उद्यतः । सुनयानां-शोभननीतीनाम् , नेतृणांस्वामिनाम् असौग्यप्रदः । आस्ताम् अन्यम्य सामान्यः एवंविधो राजाऽपि-भूपोऽपि धिक्-निन्द्यः । अत एव मण्डलं देशं कलङ्कयति-जनत्याज्यत्वेन दूषयतीत्यर्थः । अन्यत्र न-नैव तापकरणक्षमःसैतापजनकसमर्थः । यतो जडप्रकृतिः-शीतलः स्वभावः, कैरयहितः-कुमुदानुकूल: । कला एवं स्वखण्डानि एव उपकरणं तदर्थमुद्यतः । अही आश्चर्ये, एवंविधोऽपि सकलमपि मण्डल-बिम्ब कलयति-लाञ्छनछुरितं करोति । तथा सगुणैः-सतन्तुभिः पुण्डरीकै:-सिताम्भोजनॆक्षि-नावलोकितः रात्री तेषां सुप्तत्वात् ।]
२. [संपूर्णमण्डल:- परिपूर्णबिम्बः । अथ च समस्तदेशः । मम तमसः-राहोः । अथ च मदीयस्य तमसः-क्रोधस्य । चन्द्रो हि शुक्लपक्ष विनैव गिल्यते, पुनरु गिल्यते च । अयं तु मणिरथः सपक्षः, सपरिजनोऽपि मया गिलिष्यते, न पुनरुद्गिलिष्यते । अग्रेतनं उच्छ्वासपर्यवसानं स्पष्टार्थम् ।]
___ राजाऽपि सकलमेव मण्डलं कलङ्कयति इति तं धिक् । अत्र 'राजा'पदेम चन्द्रः तथा भूपः विवक्षितः । भूपपक्षे नतापकरणक्षमः-नतानां जनानाम् अपकरणे-अपकारकरणे क्षमः । चन्द्रपक्षे न-नहि तापकरणक्षमः चन्द्रो हि शीतलः अतः तापकरणे न क्षमः । नतापकरणे इत्यस्य एवं पदविभाग:-(१) नत + अपकरणे । (२) न+तापकरणे । भू० पक्षे न कैः अवहितः-अपहित:अहितकारी राजा जडप्रकृतिः-महामूढप्रकृतिः, ऐक्षि-दृष्टः । च० पक्षे न करवहितः-कैरवनाम्नां कमलानां चन्द्रो न हितः-न हितकरः । प्रत्युत हितकर एव । भू० पक्षे दोषाणाम् उदये सति । च० पक्षे दोषाया उदये सति । भू० पक्षे कस्य-सुखस्य लोपारणे उद्यतः । च० पक्षे कलानाम् स्व अंशरूपकल नाम् उपकरणे उद्यतः । भू० पक्षे सुनयनेत्रसौख्यप्रदः-सुनयनेतृणां-सुनयनायकानांनीतिमता-सत्यनिष्ठानां वा, नेतृणाम् असौख्यप्रदः-सुनयनेतृ + असौख्यप्रदः-सुनयनेत्रसौख्यप्रदः । - 1 तथापि डे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304