Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 193
________________ ११४ श्रीजिनभद्रसूरिरचिता लावण्ययौवनकलारुचिरूपलक्ष्म्या नैतादृगस्ति रमणी त्रिदशालयेऽपि । पश्यन्निमामवनिमण्डलरत्नमेकं तस्मादुपाक्रमत कोऽप्यमरोऽपि नेतुम् ॥ २७० ॥ इति दनदनदीनेन नीयमानमानसोऽपि ' का इयम् ?' इति परमार्थेनावधारिततदवस्थः स्वचरणतामरसनिवेशितनयनषट्पदां भामिनीमिव तामुवाच Jain Education International --. नीरसहितेन सरसा हंसबलेनाबलापि सत्यसता । न जडाशयेन पाता मातङ्गकरे चटन्तीति ॥। २७१ ॥ [ चतुर्थः ha कमलिन्या युक्तो न-बकोप श्लेष एष कमलाक्षि ।। युक्तावस्थितिरपि सुतनु ! राजहंसेन केनापि ॥ २७२ ॥ युग्मम् । ततश्चिन्तितमेतया - " धिगिदं सकलानर्थलतामूलं शीलप्रकाशप्रतिकूलं विपदन्धकूपं मम रूपं येनासावपि वराको मणिरथ इव छलितः सम्भाव्यते । किमिदानीं करोमि ? कि त्राणमनुसरामि ? सत्यमाकाशपतितैवाहं तथाप्यात्मानमेनं च दुर्गतिगर्तायां पतन्तं यदि रक्षामि तदतिसुन्दरं स्यात् " इति चिन्तयन्ती तमवोचत् १. मदनेन कामेन यज्जातं मदनम्- हर्षस्य आवेशः, तेन मदनमदनेन यो दीनस्तेन । र. [ अग्रेतनं नीरसहितेत्याद्यार्यार्वाक् प्रकटार्था-नीरसेभ्यो हितेन, अहं तु सरसा, सबलेनसामर्थ्येन, अहं तु अवलाऽपि, असता-अशिष्टेन, अहं तु सती -शोभना । एवंविधेन जडाशयेनमूर्खमनोवृत्तिना, मातङ्गकरे - चाण्डालहस्ते चटन्सी, न पाता-न रक्षिता इति कारगार । ] नीरसहितेन-पानीययुक्तेन, सरसा-सरोवरेण, हंसानां बलं यस्य तेन हंसबलेन, जडाशयेनजडेन जलाशयेन वा पानीयाधारेण असता - अशिष्टेन मातङ्गकरे जलहस्तिशुण्डायां चरन्ती अबलाऽपि - असमर्थाऽपि । अथ च युवतिरपि सती न पाता-न रक्षिता इति हेतोः । ३. [ हे कमलाक्षि ! एष नवस्य- नूननस्य, श्लेषः - संबन्धः तव कमलिन्या पद्मिनीवन्मनोहरा [तस्याः ] युक्तः - संगतः । सुतनु ! - शोभनशरीरे ! तत्रावस्थितिरपि केनापि राजहंसेन प्रधानेन राज्ञा सह युक्ता । अस्मादृशः कोऽपि राजा तब भर्त्ता युक्त इत्यर्थः । तव कमलिन्याः-पङ्कजिन्याः, दे कमलाक्षि ! कमलवदक्षिणी यस्यास्तस्याः संबोधनम् । वकस्य उपश्लेषः - आलिङ्गनम्, हे सुतनु ! न युक्तः । केनापि राजहंस - मरालप्रधानेन सह अवस्थितिरपि युक्ता । 'चिन्तितं मदनरेखया' इत्यन्तं स्वयमभ्युम् | ] हे कमलाक्षि ! कमलिन्याः - कमलिनी रूपायाः तव बकोपश्लेषः - बकसंबन्धः न युक्तः । हे सुतनु ! तव केनापि राजहंसेन संबन्धो युक्तः इति अवस्थितिः युक्ता - एवंप्रकारा व्यवस्था उचिता । अत्र 'न - बकोप श्लेषः' इत्यस्य द्विधा पदविभागः - नवक + उपश्लेषः । नवकः- नवीनः । न+बक + उपश्लेषः । बको नाम जलचरः 'बगला' नाम्ना भाषायां प्रतीतः । अत्र ऐक्यं बोध्यम् । वकार-बकारयोः 1 नवख । 2 किं शरणम लड़े | For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304