________________
११४
श्रीजिनभद्रसूरिरचिता
लावण्ययौवनकलारुचिरूपलक्ष्म्या नैतादृगस्ति रमणी त्रिदशालयेऽपि ।
पश्यन्निमामवनिमण्डलरत्नमेकं
तस्मादुपाक्रमत कोऽप्यमरोऽपि नेतुम् ॥ २७० ॥
इति दनदनदीनेन नीयमानमानसोऽपि ' का इयम् ?' इति परमार्थेनावधारिततदवस्थः स्वचरणतामरसनिवेशितनयनषट्पदां भामिनीमिव तामुवाच
Jain Education International
--.
नीरसहितेन सरसा हंसबलेनाबलापि सत्यसता ।
न जडाशयेन पाता मातङ्गकरे चटन्तीति ॥। २७१ ॥
[ चतुर्थः
ha कमलिन्या युक्तो न-बकोप श्लेष एष कमलाक्षि ।।
युक्तावस्थितिरपि सुतनु ! राजहंसेन केनापि ॥ २७२ ॥ युग्मम् ।
ततश्चिन्तितमेतया - " धिगिदं सकलानर्थलतामूलं शीलप्रकाशप्रतिकूलं विपदन्धकूपं मम रूपं येनासावपि वराको मणिरथ इव छलितः सम्भाव्यते । किमिदानीं करोमि ? कि त्राणमनुसरामि ? सत्यमाकाशपतितैवाहं तथाप्यात्मानमेनं च दुर्गतिगर्तायां पतन्तं यदि रक्षामि तदतिसुन्दरं स्यात् " इति चिन्तयन्ती तमवोचत्
१. मदनेन कामेन यज्जातं मदनम्- हर्षस्य आवेशः, तेन मदनमदनेन यो दीनस्तेन । र. [ अग्रेतनं नीरसहितेत्याद्यार्यार्वाक् प्रकटार्था-नीरसेभ्यो हितेन, अहं तु सरसा, सबलेनसामर्थ्येन, अहं तु अवलाऽपि, असता-अशिष्टेन, अहं तु सती -शोभना । एवंविधेन जडाशयेनमूर्खमनोवृत्तिना, मातङ्गकरे - चाण्डालहस्ते चटन्सी, न पाता-न रक्षिता इति कारगार । ]
नीरसहितेन-पानीययुक्तेन, सरसा-सरोवरेण, हंसानां बलं यस्य तेन हंसबलेन, जडाशयेनजडेन जलाशयेन वा पानीयाधारेण असता - अशिष्टेन मातङ्गकरे जलहस्तिशुण्डायां चरन्ती अबलाऽपि - असमर्थाऽपि । अथ च युवतिरपि सती न पाता-न रक्षिता इति हेतोः ।
३. [ हे कमलाक्षि ! एष नवस्य- नूननस्य, श्लेषः - संबन्धः तव कमलिन्या पद्मिनीवन्मनोहरा [तस्याः ] युक्तः - संगतः । सुतनु ! - शोभनशरीरे ! तत्रावस्थितिरपि केनापि राजहंसेन प्रधानेन राज्ञा सह युक्ता । अस्मादृशः कोऽपि राजा तब भर्त्ता युक्त इत्यर्थः । तव कमलिन्याः-पङ्कजिन्याः, दे कमलाक्षि ! कमलवदक्षिणी यस्यास्तस्याः संबोधनम् । वकस्य उपश्लेषः - आलिङ्गनम्, हे सुतनु ! न युक्तः । केनापि राजहंस - मरालप्रधानेन सह अवस्थितिरपि युक्ता । 'चिन्तितं मदनरेखया' इत्यन्तं स्वयमभ्युम् | ]
हे कमलाक्षि ! कमलिन्याः - कमलिनी रूपायाः तव बकोपश्लेषः - बकसंबन्धः न युक्तः । हे सुतनु ! तव केनापि राजहंसेन संबन्धो युक्तः इति अवस्थितिः युक्ता - एवंप्रकारा व्यवस्था उचिता । अत्र 'न - बकोप श्लेषः' इत्यस्य द्विधा पदविभागः - नवक + उपश्लेषः । नवकः- नवीनः । न+बक + उपश्लेषः । बको नाम जलचरः 'बगला' नाम्ना भाषायां प्रतीतः । अत्र ऐक्यं बोध्यम् ।
वकार-बकारयोः
1 नवख । 2 किं शरणम लड़े |
For Private & Personal Use Only
www.jainelibrary.org