________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका शौचमाचरितुं प्रारभत तावदकस्मादेवाञ्जनशैल इव जङ्गमः, पीतजलो जलधर इव निमज्ज्योन्मग्नः, कलिकाल इव मूर्तिमात् समुत्तुङ्गस्ततः समुच्छलितो महाभयङ्करो जलकुञ्जरः । तमालोकयन्त्यास्तस्याः साध्वसवशवेपमानमानसायाः स्तम्भितावूरू, प्रस्विन्नमखिलमप्यङ्गम्, तरलिते लोचने, विमूढ़ चित्तम् । तदनन्तरमेव दूतिकोदितकुमततिरस्कृतिप्रवचनपुरस्कारदम्पतीप्रसूतेन समुद्दामकामग्रहग्रस्तमतिभूपतिमत्तमातङ्गमण्यमानाभिरामपतिव्रताव्रतारामरक्षाक्षीरपूरचापितेन तदपैन्यायप्रभवभविष्यदन्योऽन्यबान्धवविरोधनिरोधनिमित्तमौनप्रतिपत्तिस्नापितेन गर्भप्रभावप्रादुर्भूताऽभयप्रदानप्रमुखदोहदसम्पत्तिमण्डितेन प्रहारोपस्थापितसंहारप्रियतमापध्यानरोधकसद्बोधहेतुसद्देशनाक्रीडितेन परमपातकात्मघातकाभियोगनिवृत्तिवितीर्णनिजोत्सङ्गेन क्रमनिवृत्तबालभावेन समासादितशुभपरिणामतारुण्येन पुण्यपुरुषेणेव 'किमियमिह वने वनेचरी क्लेशमनुभवति, सदेहापि स्वर्गाङ्गणभूषणसमुचितेयम् ' इति संप्रधारयता गृहीत्वा हस्तेन तेन कुञ्जरेण समुरिक्षप्या गगनाभिमुखम् ।
'निर्वाणपदकारणसमस्तदुर्गतिवारणचरणशुश्रूषापरायणविरतिप्रतिचारिकाविहीना दीनायमाना स्वर्गवसतिः' इति तामनिच्छन्तीव पुनरापतितुमारब्धा । तस्मिंश्चावसरे दुर्घटघटनाघटनपटिष्ठभवितव्यतावशेन तस्य पद्माकरस्योपरि तत्कालमेव सञ्चारिणा विद्याधरेण पतन्ती ध्रियते स्म । धृत्वा च नीता विद्याधरालयं वैताढयशिलोच्चयं रुदती सकरुणं व्याहृता च
यत्रागत्य सुरासुरप्रियतमा नित्यं रमन्तेतरा. मारामेषु सह प्रियः प्रमुदितैः सत्यप्यहो ! नन्दने। स्वर्गाय स्पृहयन्ति नैव सुधियो यत्र स्थिताः खेचराः
वैताढ्यं गिरिराजमद्भुतनिधिं बाले ! तमालोकय ॥२६८ ॥ इह स्थितानां न स्वर्गापवर्गावपि दुर्लभौ, स्वर्गस्थानी तु तिर्यक्त्वं नैरकत्वं वा परं भवेत् । निरीक्षमाणेन च तामदृष्टपूर्वलावण्यादिगुणराजधानी चकितविलोचनां चिन्तयांचके
साक्षादेव दिवः पतत्यत इयं दिव्याकृतिः स्वर्वधू
नेत्रोन्मेषवतीति मर्त्यवनिता याता कथं स्वर्गतः । स्वस्त्रीभ्योऽप्यधिकेत्यसौ दिविषदा नेतुं दिवं प्रस्तुता
___ऽनिच्छन्ती त्वपतत् ततो मम करे प्राप्ता परं पुण्यतः ॥ २६९ ॥ 1 विमूढितं चित्तं क। 2 °पज्ञाय ख । 3 °त्तप्रति ख । 4 °ध्यानारो' ख । 5 कापयो ख। 6 °मिह वनेचरी खल। 7 °चारका ख । 8 प्रियैः समु खल। 9 नां सुति ख । 10 नरत्वं खडे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org