SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा - आख्यायिका ११५ 'यदि त्वं सकलमपि संसारस्वरूपं परदारपरीरम्भलालसमानसानां ध्रुवं नरकपातं च श्रद्धालुरसि ततः परवधूनिरीक्षणे तन्द्रालुर्निद्रालुश्च भूयाः । सम्पद्यस्व मयि दीनायां दयालुः, मां पुनर्दुः शीलबुद्ध्या ध्यायन्नपि गृहयालुः पतयालुरेव नरककोटरे भविष्यति । त्वया तावदिह पद्माकरे पतन्तीं त्रायमाणेन जीवितं दत्तमिदानीं तु शीला पहारापदेशेन तदपहर्तुमेव प्रारभ्यते । तदेतत् सकलमेवानुचितं सत्पुरुषाणाम् । जीवितं शीलमेवैकं कुलीनस्य क्षमातले । यतः शीलविहीनानां जीवितव्यकथा वृथा ॥ २७३ ॥ अपि च, अहमद्य रजन्यां तत्र सरस्तीरे बालकमजीजनम्, तं च निजजीवितमिव तत्रैव कदलीलतागृहे निवेश्य शरीरादिक्षालनार्थं सरसि प्रविष्टा सती समुत्क्षिप्ता नभसि वारणेन, समानीताऽत्रभवता । स च बालको व्यालादिगोचरगतो वा स्तन्यविरहितो वा स्वस्येव ममापि जीवितकथां समापयिष्यति । तद् अपत्यभिक्षाप्रदानेनातिथेयीं मेामतिथये करोतु महाभाग !, समर्जयतु पुण्यराशि, तनोतु कुन्दावदातामात्मनः कीर्तिम् । यतः - तनोतु कीर्ति शरदिन्दुशुभ्रां पुण्यश्रियं चार्जयति प्रकामम् । येनेह लोके च भवान्तरे वाऽनुकम्पया प्राणिगणस्य धीरः ॥ २७४ ॥ किंबहुना ? 'यदि मां जीवयितुमिच्छसि तदविलम्बमेव तं बालकं वा समानय, नयनिघे ! मां वा तत्र नय' इति व्याहरन्तीमम्बरचरचक्रवर्ती व्याजहार 'सुन्दरि ! सर्वथा यदि मां भर्तारं प्रतिपद्यसे तदा तवादेशकारी भवामि । अपरं च, गन्धारजनपदालङ्कारायमाणे रत्नावहे नगरे मणिचूडा भिधो विद्याधरेन्द्रो बभूव | कमलावती चतस्य राज्ञी । तयोश्च तनूजो मणिप्रभोऽहम् ! मणिचूडस्तु द्वयोरपि श्रेण्योराधिपत्यमस्खलितं पालयन्नपि गतः परमं वैराग्यम् | कुलमखिलमरीणां हेलया ध्वंसयित्वा विषयसुखमशेषं स्वेच्छया मानयित्वा । Jain Education International तृणमिव पटलग्नं भग्नकन्दर्पदर्पोs त्यजदभजत दीक्षां मोक्षकाङ्क्षेकतानः ॥ २७५ ॥ १. अत्र 'सकलमपि संसारस्वरूपं विदुः' इत्येवं वाक्यं भवेत् । विदुः - ज्ञाता । २. आतिथेयीम् - आतिथ्यम् । ३. मानयित्वा - अनुभूय । 1 महामतिकथयेव क० खल 1 2 ततः यदि खल । 3 जीवितु ख । 4 समानय निधेहि मां खल | For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy