________________
श्रीजिनभद्रसूरिरचिता
[ चतुर्थः तदनुमतामुपेत्य राज्यलक्ष्मी
मनुपरिपाटिगतां दधाम्यहं ताम् । क्वचिदपि पुरुषोज्झिता महेला
न भवति सौख्यपदं कदाचिदेव ॥२७६॥ स पुनश्चारणश्रमणो मां वैन्दयितुमतीते वासरे गामाकर-पुराकीर्णा वसुन्धरां विहरनिहाजगाम । साम्प्रतं तु चैत्यवन्दनाय नन्दीश्वरे विजहार । मया तु तत्समीपमद्य गच्छता कृशोदरि ! त्वमासादिताऽसि । ततः सकलविद्याधरीचक्रचूडामणिचुम्बितचरणतामरसा मामधिपतिं कृत्वा सम्पद्यस्व । दिव्यविमानारूढा प्रौढानन्दनेन मया नन्द्यमानाऽनेकाश्चर्यकलितां सशैलद्वीपसागरां सकलामप्यचलां विलोकयन्ती सकलोत्सवानामुपरि वर्तस्व । मृगाकमुखि ! तनयस्यापि कामपि चिन्तां मा कृथाः । सर्वथा धीरा भव । यतः, स दुष्टतुरङ्गापहृतेन विदेहजनपदैकस्वामिना मिथिलाधिपतिना समासाद्य 'अनवद्यलक्षणलक्षिताङ्गः' इति समादाय समर्पितो महादेव्याः, वर्तते च पञ्चधात्रीभिः परिपाल्यमानः सुख सुखेन । न चैतदन्यथा चिन्तनीयम् , यतः प्रज्ञप्तीमहाविद्याप्रसादेन करतलकलितमामलकीफलमिव कलितं मयेति तनयविषयामधृतिं न कर्तुमर्हसि । किं बहुना
तनु सुतनु ! मनस्ततः प्रसन्न
__ परिहर कातरतां कुरङ्गनेत्रे ! । पुनरपि न गतेति यौवनश्रीः |
___ सफलयतामधिगम्य नायकं माम् ॥२७७॥ ततश्चिन्तित मदनरेखया--
मुक्तिपरमार्गलाभाः सभवानीहावरागतद्वेषाः ।।
आराध्या गुरुबुद्धया न-रमण्यः परमनिवृतिनिमित्तम् ॥२७८॥ १. वन्दयितुम्-वन्दनं कारयितुम् ।
२. [ मुक्तिपरेन्याद्यार्या-मुक्तेः-सिद्धेः, परमा-प्रकृष्टा, अर्गलाभा-अर्गलासदृशा, भवान्याःगौर्याः, हावैरुपलक्षितो रागो भवानीहावरागः । स च तद्वेषश्च-तन्नेपथ्यं च तो तथा । सह भवानीहावराग-तद्वेषाभ्यां वर्तन्ते सभवानीहावरागतद्वेषाः एवंरूपा रमण्यः-स्त्रियः, गुरुबुद्धया-गुा मत्या, न-नैव, आराध्या । या परं-प्रकृष्टम् अनिवृतिनिमित्तमसुखकारणम् । नरमण्यः-पुरुषरत्नानि, परमनितिनिमित्तम्-मोक्षहेतुः, अत एव गुरुबुद्धया धर्माचार्यादिभिः प्रायेण आराध्याः-सेव्याः। मुक्तेः परः-प्रकृष्टो मार्गलाभो तेभ्यः सकाशात् ते । सह भवस्य-संसारस्य अनीहया वर्तन्ते इति सभवानीहाः-वराः-प्रधानाः, गतदेषाः-निषा इत्यार्थिः। अग्रेतनं 'नरकेषु निपतन्ति' इत्यन्तं स्वयं विचार्यम् ।]
1 मतिमुपेत्य डे । 2 ततो विद्या° डे । 3 प्रौढानन्दा मया खल ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org