________________
उच्छ्वासः ]
मदनरेखा-आख्यायिका इत्याद्युपदेशानामयमुद्दामकामः प्रथमोत्पन्नज्वरात इवौषधानामयोग्य एव । यतःतावन्मानयतीह जातिममल तावत् कुलं प्रोन्नतं
धत्ते चेतसि तावदिच्छति परामात्मप्रतिष्ठामपि । तावन्नीतिपथप्रथां प्रथयते तावच्च धर्मेकधी
र्यावन्न प्रतिहन्यते स्मरशरैर्वीरोऽपि विद्वानपि ॥२७९॥ एवं स्थिते साम्प्रतं तावत्-- अहमिममनुकूलयामि वाचा
यदि किल कालविलम्बमेव दत्ते । बलवति यदुपस्थितेऽनभीष्टे
घटयति येन से एव साध्यसिद्धिम् ॥२८०॥ इति निजमनसिकृत्य मदनरेखा व्याजहार--
"महाभाग ! यद्येवमा ग्रहस्ते ततो दर्शय तावन्नन्दीश्वर-मुनीश्वरलक्षणं तत् तीर्थद्वितय येन तद, दृष्ट्वा नत्वा च पवित्रयामि नेत्र-शिरसी। त्वमपि यदात्मने रोचते तद् विदधीथाः ।
स च समाकर्ण्य कर्णामृतमिव तद्वचनमनिमिषलोचनबिलोकनीये वैक्रिये विमाने तदा त्वरितमेव समारोप्य नीता सा तत्र तीर्थे । ततो विमानात् संसारादिवोत्तीर्य प्रमोदसम्पदालिङ्गितेन मनसा द्राक्षारससम्बन्धबन्धुरेण ध्वनिना धाराहतकदम्बकुसुमानुकारिणा पुलकितशरीरेण तया मदनरेखया भावसारमेव शाश्वतीरशेषा अपि सानन्दमृषभ-वर्द्धमान-चन्द्राननवारिषेणनामधेया जिनेशप्रतिमा अर्चिता वन्दिता इत्थं स्तुताश्च---
अत्र प्रयुक्तानां समासमुक्तवाक्यानां पदच्छेदः एवम्(१) मुक्तिपरम+अर्गलाभा रमण्यः ।
मुक्तिपरमार्गलाभा नरमण्यः-नरश्रेष्ठाः । (२) सभिवानी+हाव+राग+तद्वेषाः रमण्यः । वेषो नेपथ्यम् ।
हावः नारीचेष्टाविशेषः । स+भव+अनीहा+वरा+गतद्वेषा नरमण्यः ।
भवस्य अनीहा तया सहिता सभवानीहाः । (३) न रमण्यः ।
नरमण्यः । (४) परम्+अनि तिनिमित्तम् रमण्यः ।
परम+निर्वृतिनिमित्तम् नरमण्यः । निर्वृतिः-निर्वाणम् । १. सः कालविलम्बः ।
1 यावन्मा डे । 2° मलं ता ख । 3 शरैरो ख! 4 नत्वा पवि डे। 5 वैक्रियवि डे। 6 °दा स्वरमेव डे। 7 °मृषभ-चन्द्रानन-वारिषेण-वर्धमाननामधेयाः डे। . .
मुक्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org