Book Title: Katantra Vyakaranam Part 02 Khand 01 Author(s): Jankiprasad Dwivedi Publisher: Sampurnanand Sanskrit Vishva Vidyalay View full book textPage 7
________________ (ii) 'क्षिप्रं प्रबोधार्थमनेकार्थं कलापकम्' (व्याख्यानप्रक्रिया १।१५ - १६) इति आचार्यशशिदेवस्य समुद्घोषः कलापापरपर्यायस्य कातन्त्रस्य नूनं सरलतां संक्षिप्ततां चावबोधयति । एतेनैवानन्यसुलभेन वैशिष्ट्येन व्याकरणमिदं कश्मीर - राजस्थानवङ्गादिप्रदेशेषु नेपाल – भूटान-तिब्बत - मङ्गोलिया - श्रीलङ्कादिदेशेषु चाध्ययनाध्यापनादौ पर्याप्तं प्रतिष्ठितं बभूव । अस्य मुद्रिता सामग्री नागराक्षरेषु प्रायेण नगण्यैवास्ते, ततोऽधिका वङ्गाक्षरेषूपलभ्यते, परं शताधिकवर्षपूर्वं मुद्रितत्वात् सा जीर्णप्रायैव काठिन्येन प्राप्यते । विपुला सामग्री व्याकरणस्यास्य वङ्ग-शारदा - उत्कल - भोटप्रभृतिलिपिषु निबद्धा तत्र तत्र सुरक्षिताऽवलोक्यते । सम्पादकेन डॉ० द्विवेदेन प्रायेण सर्व एवैते हस्तलेखाः समयेऽधीता आसन्, यथास्थानमंशतस्तेषामुपयोगोऽपि कृतः । तिब्बतदेशे कदाचिदस्यैव प्राधान्येनाध्ययनादिकं प्रवृत्तमासीदिति द्वादशग्रन्थानां भोटभाषानुवादेन भोटभाषायां त्रयोविंशतिव्याख्याप्रणयनेन चावगन्तुं शक्यते । श्रीतेनजिनग्यात्सोनाम्ना प्रसिद्धेन चतुर्दशदलाईलामामहाभागेनेदं कलापव्याकरणमधीतमासीदिति तेनैव स्वयमुक्तं २१.१२.९८ तमे दिनाङ्के सारनाथस्थे तिब्बतीसंस्थाने प्रवर्तितव्याख्यानप्रसङ्गे।। अत्र वङ्गाक्षरेषु शताधिकवर्षपूर्वं मुद्रितान् ग्रन्थानधिकृत्य सम्पादनकार्य प्रवृत्तमस्ति । अस्मिन् सम्पादनकार्ये विविधग्रन्थानां सन्दर्भसम्पूरणेन सौष्ठवं किमपि संवर्धितम् । कातन्त्रपरिशिष्ट - विशिष्टशब्द - व्युत्पादितशब्दादीनां परिशिष्टैः शोधकार्यसौविध्यमारचितम् । एतेन मन्ये, शास्त्रान्तरेषु निरतैर्लोकयात्रादिषु स्थितैश्चापि जनैरल्पीयसा कालेन सुखेन च कातन्त्रव्याकरणज्ञानं कर्तुं शक्यते । महनीयस्यास्य कार्यस्य महता श्रमेण मनोयोगेन च सम्पादनकर्मणि समर्पितं डॉ० जानकीप्रसादद्विवेदमहं सम्प्रीतः सन् विविधैराशीर्वचोभिरभ्युदयेन योजये । इदमाशास्यते आशंस्यते चापि यत् सङ्कल्पितस्य समग्रस्यैव कार्यस्य सम्पादनं प्रकाशनं चाशु सम्पद्येतेति । अन्ते च ग्रन्थस्यास्य सौष्ठवपूर्वकप्रकाशनार्थं विश्वविद्यालयस्यास्य प्रकाशननिदेशकाय डॉ० हरिश्चन्द्रमणित्रिपाठिमहोदयाय, तत्सहायकाय डॉ० हरिवंशकुमारपाण्डेयाय, प्रकाशनविभागीयान्यसहयोगिभ्यः, मुद्रकाय 'आनन्द-प्रिंटिंग-प्रेस' - यन्त्रालयसञ्चालकाय श्रीदिवाकरत्रिपाठिने च धन्यवादान् समर्पयन् ग्रन्थाममं पाठकेभ्यः समुपहरामि । 24 वाराणस्याम् मार्गशीर्षपूर्णिमायाम्, वि० सं० २०५५ मण्डनमिश्रः कुलपतिः सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्यPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 630