Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 6
________________ प्रस्तावना अपवर्गस्य द्वारं वाङ्मलानां चिकित्सितं च व्याकरणं शब्दानुशासनानुरागिणे कस्मै सचेतसे न रोचेत । तत्र माहेन्द्रीं परम्परामधिकृत्य प्रवर्तिते ' मोदकं देहि ' इति वचनाश्रिते कातन्त्रव्याकरणे मूलभूतानि सन्ति त्रीणि प्रकरणानि । 'मा + उदकम्' इति पदच्छेदेनोपलक्षितं प्रथमं सन्धिप्रकरणम्, मोदकम्' इति स्याद्यन्तपदेन संकेतितं द्वितीयं नामचतुष्टयप्रकरणम्, 'देहि' इति क्रियापदेनोद्दिष्टं तृतीयमाख्यातप्रकरणं चेति । तत्र सार्धचतुष्टयशतपृष्ठात्मकः सन्धिप्रकरणात्मकः प्रथमो भागः १९९७ तमे यीशवीये वर्षे विश्वविद्यालयेनानेन प्रकाशितः, यस्य लोकार्पणं २९. ३.९८ तमे दिनाङ्के उत्तरप्रदेशीयोच्चशिक्षामन्त्रिणा माननीय श्रीनरेन्द्रकुमारसिंहगौरमहोदयेनानुष्ठितम् । भागस्यास्य विस्तरेण समीक्षा 'प्राकृतविद्या' पत्रिकायां (व० १० अं० १, पृ० ८८- ९०) डॉ० सुदीपजैनमहोदयेन समाचरिता । सः सम्पादकस्याद्भुतं कार्यमिदमितिहासनिर्माणकरं मनुते । तत्र परमं प्रमोदास्पदमेतद् यत् 'श्रीकुन्दकुन्दभारतीट्रस्ट' नाम्नी दिल्लीस्था जैनसंस्था संस्कृतभाषासाहित्ययोर्महनीयमवदानं तत्रापि च कातन्त्रव्याकरणस्य सम्पादनसमीक्षासंवलितं विशिष्टं कार्यं परिलक्ष्य सम्पादकाय डॉ० द्विवेदाय आचार्य - उमास्वामिपुरस्कार मुद्घोषितवती । - काशनसौविध्यधिया नामचतुष्टयात्मके द्वितीये भागे खण्डद्वयं परिकल्पितम् । तत्र प्रथमे खण्डेऽस्मिन् नामचतुष्टयप्रकरणस्य प्राथमिकं पादत्रितयमेव सङ्गृहीतम् । अवशिष्टं चतुर्थं कारकप्रकरणं पञ्चमं समासप्रकरणं षष्ठं तद्धितप्रकरणं च द्वितीये खण्डे समावेशार्हमस्ति । अत्र प्रथमे खण्डे २०६ सूत्राणां दुर्गसिंहीयवृत्तेः, दुर्गटीकायाः, त्रिलोचनदासकृताया विवरणपञ्जिकायाः, सुषेणविद्याभूषणकृतस्य कलापचन्द्रस्य च सम्पादनं सन्निहितमस्ति । व्याख्याचतुष्टयस्यास्येह तदेव स्थानमवगन्तव्यं यत् पाणिनीयव्याकरणे भाष्य – काशिका - न्यास - पदमञ्जर्याख्यव्याख्यानानामुपकल्प्यते । सम्पादकस्य श्रीद्विवेदस्य प्रतिसूत्रं हिन्दीभाषायाम् अर्थनिर्देशः समीक्षा च व्याकरणस्यास्यार्थतत्त्वाधिगमाय सौविध्यातिशयं वितरति । समीक्षायां प्रायेण पक्षत्रितयं प्रदर्शितम् – १. पाणिनीयसूत्रैः सह तुलनात्मकाध्ययनेनोत्कर्षापकर्षविवेचनम्, २. व्याख्याचतुष्टयव्याकरणान्तरीयविशिष्टविचारप्रवर्तनम् ३. शब्दसाधुत्वप्रक्रियाप्रदर्शनं चेति । गोपथब्राह्मण- बृहद्देवता - ऋक्तन्त्र - अग्निपुराण - जैनेन्द्रव्याकरणादिभ्योऽपि समाहता सामग्री शोधकार्यनिरतानां जिज्ञासुजनानां च महते उपकाराय प्रकल्पेत ।

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 630