Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
२
* जम्बूद्वीप
(५) स्वकोयलाभप्रयोजनादिभिः कदापि सत्यं नाच्छादयेत् । (६) पापाचरणं परिहाय पुण्यादिकर्मसु सञ्चरन्नपि धर्मदृष्टया पुण्यं हेयमेवेति मत्वा
धर्माभिलाषी सन् धर्ममाचरेत् । (७) सुखस्याश्रयभूतप्रयोजनेन स्वीकृतो धर्मो धर्म एव न कर्मेति निश्चिनोतु। । (८) धर्मक्षेत्रे तत्साधनादिक्रियाकलापेषु वा विषयभोगाभिलाषया यशस्कामनया च न
किमपि कुर्वोत। (e) निन्द्यकर्मणि कदापि न प्रवर्तत । कस्यचिच्छैथिल्यं निन्दितकर्म वा परिज्ञाय सत्
भावनया तथैव सत्यमुद्घाटयेत् यथा स्यात्परेषां कृतेऽवबोषनं न पीडनमिति । (१०) स्वातन्त्र्यमेवोररीकुर्वीत।। (११) पराधीनवृत्ति विहाय कदापि नाभिमन्येत तां सुखकरीमिति । (१२) जीवाजीवात्रवबन्धसंवरनिर्जरामोक्षादि-प्रयोजनमूततत्त्वानां स्वप्रयोजनपोषणायव
सूक्ष्मतमं प्रगाढचिन्तनं विधाय तत्त्वचिन्तने सोत्साहो भवेत् । (१३) स्वात्मनः ज्ञानं श्रद्धानमाचरणं च यथा स्यात्तथैवाचरेत् ।
इति कृत्वा सुगृहीतप्रयत्नस्य बन्धनिर्वृत्तिः जायते । बन्धनिर्वृत्ति प्रति जीवानां जिज्ञासा मोक्षप्राप्त्यभिलाषतः सञ्जायते । मोक्षाभिलाषस्तु मोक्षस्य महिमस्वरूपादि: चिन्तनेन प्रवर्धत एव ।
प्रायः सर्वेषु भारतीयसंस्कृतिसमलङ कृतेषु दर्शनेषु आकुलतारूपदुःखनिवृत्तिः मुक्तिरिति तात्पर्यम् । कश्चासौ तन्मार्गः कथं वा प्रतिप्राणि तदारुढं भवितुमर्हति किञ्चादः तत्फलमिति जिज्ञासा वर्तत एव ।
जैनदर्शनानुसारेण ज्ञानावरणाद्यष्टविधकर्मरहितस्य विगलितरागद्वषविकारस्यावाप्तज्ञानोत्कर्षस्याक्षीणनिराकुलसुखलब्धस्यात्मनः परिपूर्णशुद्धावस्था मोक्षो भवति । तदवाप्तये वीतरागसर्वज्ञहितोपदेशिभिः ऋषभादिमहावीरपर्यन्तचतुर्विंशतितीर्थकरादिभिः गणधरादिभिराचार्यैश्च ज्ञाननिकषसंवलितो युक्त्यागमानुभवसम्मतो मुक्तिमार्ग उद्घाटितः स चाद्यापि ऋषिपरम्परात उपलभ्यत एव। तथा हि-गृध्रपिच्छाचार्येणोमास्वामिमुनीन्द्रेण सुरगिर्यादौ जैनसूत्रग्रन्थे तत्त्वार्थसूत्रनामधेयेऽपरनाममोक्षशास्त्रे वा प्रथमं सूत्रं लिखितं येन मोक्षमार्गः प्रस्फुटीभवति । यथा
"सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" ।' अपरञ्च कुन्दकुन्दानुसारं पञ्चास्तिकाये
1. तत्त्वार्थसूत्रम् 1/1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/fb4169449b4a9f4f565b31e1d0830a8dfca12beb6660fcf2f0e9cc45b5b0c6fd.jpg)
Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102