Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 61
________________ जैन- ज्यौतिषे सूर्यद्वय - सिद्धान्तस्य नव्यज्यौतिषपरिप्रेक्ष्ये व्यवस्था, सौर वर्ष - मान- संशोधनं च Consistency of double-sun-theory of Jain-Astronomy in the frame work of modern Astronomy & Correction in the Solar year. E डा० शक्तिधरशर्मा भौतिकी - विभागाध्यक्षः, पंजाबी विश्वविद्यालयः, पटियाला भारतीये ज्यौतिष शास्त्रे प्राचीनतमः ज्योतिष-ग्रन्थ : ऋषि- लगघ - कृतं "वेदाङ्गज्यौतिषम्" इति मन्यन्ते विद्वांसः । श्रस्य काल: १४०० B. C. स्वीक्रियते, यतो हि तदा उत्तरायण प्रारम्भः घनिष्ठानक्षत्रस्य प्रादौ प्रजायत इति' । वेदाङ्ग - ज्यौतिषात् पञ्चसिद्धान्तिका -सङ्कलित - ज्यौतिष-सिद्धान्तपञ्चकाभ्युदयात् पूर्वं तथा च आर्यभटीय - ग्रथनात् पूर्व २००० वर्षावधिकः कालः भारतीये ज्यौतिषेतिहासे अन्धकारमयः एव । भारतीयसंस्कृत्याः कृते ज्यौतिष-सिद्धान्तानाम् उद्भवस्य श्रेयः कियत् ? इति ज्ञातुम् अन्धकारमयज्यौतिषेतिहास-युगस्य ग्रन्थानां सूर्य प्रज्ञप्ति - ज्योतिष्करण्डकादि-ग्रन्थानां वैज्ञानिक विश्लेषणम् आवश्यकं कर्तव्यम् । एते प्राकृतग्रन्थाः अद्यावधि न विश्लिष्टाः सिद्धान्त ज्यौतिषज्ञः, अपितु उपेक्ष्यन्त एव । अत्र ग्रथिताः वेध - विधयः प्राचीनतमाः इति नात्र सन्देहः । नक्षत्रचक्रस्य प्रारम्भः अभिजितः अजायत इत्यतः भगवन्महावीरावतारासन्नः काल एव यति । परं पुस्तकाकार - ग्रथनं तु कतिपय - शताब्द्यनन्तरम् एव सम्पादितम् । श्रभिजि - दादि-गणना नक्षत्राणाम्, अस्य प्राचीनत्वं द्रढयति इति बोध्यम् । वेदाङ्ग - ज्यौतिष- कालानन्तरं पञ्चसिद्धान्तिकादि- पठिताङ्क -जालस्य उपपादनम् कथम् अजायत ? इत्येतस्य प्रश्नस्य समाधानं तु जैन - ज्यौतिष-ग्रन्थ विश्लेषणेन एव सम्भवति । भारतीय ज्यौतिषेतिहासान्धकार-मय-युगान्तर्गतकाल - समृद्धानां बैबिलोन ( Baby fon )-ग्रीक - ( Greece ) - प्रभृति - सभ्यतानां ज्योतिःशास्त्रे योग-दानानि वैदेशिकाः डा० न्यूगेवार - पिंगरी - प्रभृतयः विद्वांसः व्यश्लेषयन् व्यवास्थापयंश्च यत् एते एव देशाः समुदनयन् ज्यौतिष-सिद्धन्तान् । भारतीयाश्च तेभ्य एव गृहीतवन्तः " इति । किन्तु वस्तुतः प्राकृत-ग्रन्थानां सूर्य-प्रज्ञप्ति - ज्योतिष्क रण्डकादीनां परिशीलने उपेक्षाभ्यः एव हेतुभ्य एतादृश्य: वैदेशिकोपज्ञ - धारणाः पर-प्रत्यय-नेय बुद्धिभिः तथा कथित - नव्यभारतीयैः प्रामाणि - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102