Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 59
________________ * जम्बूद्वीप मिति चारित्रेण च तस्यैव श्रद्धानं ज्ञानमाचरणं विधाय मुक्तिमार्गाधिरूढो भवन् जीवो मुक्तिमवाप्नोति । तत्रापि सः सम्यग्दर्शनज्ञानचारित्रमयमात्मानमेवाभेदेन जानाति श्रद्दधात्यनुभवति च तमेव । किञ्चास्मादेव प्रतिभाति मुक्तेः मुक्तिमार्गस्य चात्मना सह संस्थितिः ख्यातिर्वा यतो ह्य भयत्रापि एकस्यैव निजात्मनः प्राधान्यं वरीवति । ..... ___ मुक्तिमुक्तिमार्गयोरात्मत्वं प्रतिष्ठापयन्त्येव जैनाचार्याः बहुलतया । तन्मुक्तिस्तावत् शुद्धात्मत्वमस्त्येव, मुक्तिमार्गश्चापि तद्वदेव भवेदवस्थाऽवस्थायिनोरभेदादिति । यथा द्राक्षादधिगुडकर्पूरचातुर्जातकादिभिः समुद्भवं पानकरसभेदविवक्षयैकमेव सिद्धयति तथैव शुद्धात्मानुभूतिलक्षणकनिश्चयसम्यग्दर्शनज्ञानचारित्रः सञ्जातोऽयं मुक्तिमार्गोऽभेदविवक्षावशादेकात्मत्वेनैव प्रसिद्धयति । बाह्याभ्यन्तरपरिग्रहेण मुक्तो भूत्वा निजात्मन्येव निस्संगपरमात्मभावनोत्पन्नसौन्दरानन्दस्यन्दि-निराकुलसुधारसास्वादेन भरितावस्थः पुरुषः स्वकीयचैतन्यचमत्कारेणव निजात्मानं जानाति पश्यत्यनुचरति च, तत एव सिद्ध भवति यत् शुद्धचैतन्यस्वरूपे विशुद्धश्रद्धानज्ञानचारित्रसुखादिलक्षणे मुक्तिमार्गो भवेदेव । मुनिराजयोगीन्दुदेवेनापि समुद्घोषितमेव यद्दर्शनं ज्ञानं चारित्रं चैतत्त्रयमपि त्वमात्मानं मन्यस्व मुक्तिमार्गत्वेन । यथा "जीवह मोक्खहँ हेउ वरू बंसणु णाणु चरित्तु । - ते पुणु तिण्णि वि अप्पू मुणि रिणच्छएं एहउ वृत्तु ॥३० अपि च, सिद्धान्तिदेवश्रीनेमिचन्द्रः मोक्षस्य कारणं व्यवहारेण सम्यग्दर्शनज्ञानचारित्रत्रयं परमार्थतया च तत्रितयमयो निजात्मवेत्युक्त्वाऽभेदनयेन सदृष्टिज्ञानवृत्तानि स्वशुद्धात्मैवेति प्रतिपादितं, यतो हि, नात्मानं विहाय रत्नत्रयमन्यद्रव्येषु वर्तितुमलमिति । प्रस्फुटतितरां चानेनैव मुक्तिमार्गस्यात्मत्वम् । तद्यथा "रयणत्तयं ण वट्टइ अप्पारणं मुइत्तु अण्णदवियह्नि। तम्हा तत्तियमहउ होदि हु मुक्खस्स कारणं प्रादा ।।1 तथा च "निच्छयणयेण भरिणदो तिहि तेहिं समाहिदो हु जो अप्पा"" इत्यस्य भावानुसारेण प्रतिफलति यद् यथार्थतो मुक्तिमार्गः सम्यग्दर्शनज्ञानचारित्रैः त्रिभिः समाहित आत्मैव भवति । 20. परमात्मप्रकाश: 2/12, 21. द्रव्यसंग्रहः, गाथा 39, 22. पञ्चास्तिकायसंग्रहः, गाथा 161 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102