Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
* जम्बूद्वीप . : हतं शानं क्रियाहीन हता चाज्ञानिना किया।
धावन किलान्धको दग्धः पश्यन्नपि च पङ्गलः॥ संयोगमेवेह वदन्ति तज्ज्ञा न ह्य कचक्रण रथः प्रयाति ।
अन्धश्च पङ्ग श्च वने प्रविष्टौ तौ सम्प्रयुक्तौ नगरं प्रविष्टौ ॥इति ॥ .. वस्तुतः सम्यग्दर्शनज्ञानचारित्रत्रयाणां युगपद्वर्तनमेव मुक्तिमार्ग इति निष्कर्षः । मोक्षमार्ग एक एव
जनमान्यतानुसारं तु सर्वेषां कृते मोक्षमार्ग एक एव वर्तते । “एको मोक्षपथो य एष नियतो दृग्ज्ञप्तिवृत्त्यात्मक''12 इत्यार्पोक्तेः । सर्व एव तीर्थकराः मुमुक्षवश्च केवलमेकशुद्धात्मतत्त्ववृत्तिलक्षणात्मकं विधिमेवाश्रित्य मुक्तिमुपगताः, साम्प्रतमपि · समुपगच्छन्ति गमिष्यन्ति चाप्यने- इत्यतोऽपि ज्ञायते यन्मुक्तिमार्ग एक एव भवेत् । मुक्तिमार्गाधिरूढोऽध्यात्मवेत्ताऽऽचार्यामृतचन्द्रोऽपि प्रतिपादितवानिदं कुन्दकुन्दप्रणीत- पवयणपाहुडस्य तात्पर्यवृत्तिटीकायां यथा-“यतः सर्व एव सामान्यचरमशरीरास्तीर्थकरा अचरमशरीराः मुमुक्षवश्चामुनैव यथोदितेन शुद्धात्मतत्त्वप्रवृत्तिलक्षणेन विधिना प्रवृत्तमोक्षस्य मार्गमधिगम्य सिद्धा बभूवुः न पुनरन्यथाऽपि । ततोऽवधार्यते केवलमयमेक एव मोक्षस्य मार्गो न द्वितीय इति ।"13
तथा च येन विधिनोत्पादव्ययध्रौव्यत्रयाणामेकत्वमेव द्रव्यं तद्वदेव सम्यग्दर्शनज्ञानचारित्रत्रिलक्षणानामेकत्वमेव मुक्तिमार्गो ज्ञातव्यः । संज्ञालक्षणप्रयोजनादिभेदेऽपि तेषां सदृष्टिज्ञानवृत्तानामेकस्मिन्नेवात्मन्यभेदतयाऽवस्थितत्वात् । निश्चयव्यवहारमोक्षमार्गविषयः
प्ररूपणापेक्षया मोक्षमार्गो द्विविधः प्ररूपितः । वस्तुतस्तु स एक एव । निश्चयमोक्षमार्गो व्यवहारमोक्षमार्गश्चेति भेदकरणेन मुक्तिमार्गद्वयमिति नैव मन्तव्यं स्पष्टप्रतिपत्तय एव तदिदं भेदकरणमिति । सर्वदा सर्वत्र च मुक्तिमार्गः सम्यग्दर्शनज्ञानचारित्रत्रयात्मक एव तत्र शुभप्रवृत्तेः गणना मुक्तिमार्गत्वेन नास्ति तथापि सहचारित्वात्तदाकलनं यद्विहितं परमागमे तद् बन्धहेतुकमेवेत्यसकृन्निरूपितम् । श्री आइल्लधवलविरचित-'द्रव्यस्वभावप्रकाशकनयचक्रे' चतुरशीत्यधिकद्विशततमगाथोत्थानिकायां वणितमेव यद्"व्यवहारपरमार्थाभ्यां तत्त्वत्रयमेव मोक्षमार्गो न शुभाशुभावित्याह ।" गाथा चेयम्
"दसणणाणचरित्तं मग्गं मोक्खस्य मणिय दुविहं पि ।
रणः हु सुहमसुहं होदि हु तं पि य बंधो हवे रिणयमा ॥1॥ 12. समयसारस्य प्रात्मख्यातिटीकायां कलश: 240 13. प्रवचनसारस्य तात्पर्यवृत्तिटीका गाथा 199 14. द्रव्यस्वभावप्रकाशकनयचक्रं, गाथा 285
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102