Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
जैनाभिमतमुक्तिमार्गः *
अन्यत्र15 च सटीकसमयसारप्रवचनसारपुरुषार्थसिद्धय पायादिष्वपि समवलोकनीयं साक्षात्कर्तु मिति । मुक्तिस्तावच्छुद्धरत्नत्रयमेव18 तस्यैव कथनं यदा भेदाभेददृष्टिद्वयेन भवति तदैव व्यवहारमोक्षमार्गो निश्चयमोक्षमार्गश्चेति यथासंख्यमवगन्तव्यम् । तत्रापि निश्चयव्यवहारमोक्षमार्गनिर्देशगाथा श्रीमन्नेमिचन्द्रसिद्धान्तिदेवैः विरचिता 'द्रव्यसंग्रहे' साऽपि पर्यवलोकनीया। यथा
"सम्म सणणाणं चरणं मोक्खस्य कारणं जाणे ।
ववहारा णिच्छयदो तत्तियमइयो णिो अप्पा ॥"17 तदनुसारं ब्रवीम्यहं “भो भव्यपुरुष ! त्वं व्यवहारनयादेशात् सम्यग्दर्शनज्ञानचारित्रत्रिकं निश्चयनयांदेशात्तु सद्ज्ञान-श्रद्धानानुचरणयुतमात्मानमेव मुक्तिमार्गत्वेन जानीहि । तत्र व्यवहारनयादेशे भेदो मुख्योऽभेदश्च गौणत्वेनाभिमतो निश्चयनयादेशे त्वभेदो मुख्यो भेदश्च गौणत्वेनेति ज्ञेयम् द्रव्यार्थिकनयेऽभेदो मुख्यः पर्यायाथिकनये च भेदः । तदनुसृत्य द्विप्रकारकमार्गबोधको निम्नश्लोकोऽवलोकनीयो न च मार्गद्वयबोधकः -
"स्यात्सम्यक्त्वज्ञानचारित्ररूपः पर्यायार्थादेशतो मुक्तिमार्गः। . एको ज्ञाता सर्वदेवाद्वितीयः स्याद् द्रव्यार्थादेशतो मुक्तिमार्गः ॥"18
___ तथा च श्रीमद्ब्रह्मदेवविरचितबृहद्रव्यसंग्रहनामिकायां व्याख्यायां निश्चयव्यवहारप्रतिपादकमस्त्येवाधस्तनानुसारम् -
"वीतरागसर्वज्ञप्रणीतषड्द्रव्यपञ्चास्तिकायसप्ततत्त्वनवपदार्थसम्यक्श्रद्धान-ज्ञानवताद्यनुष्ठानविकल्परूपो व्यवहारमोक्षमार्गः । निजनिरञ्जनशुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणकाग्र्यपरिणतिरूपो निश्चयमोक्षमार्गः । स्वसंवित्तिसमुत्पन्नरागादिविकल्पोपाधिरहितसुखानुभूतिरूपो निश्चयमोक्षमार्गः । अथवा धातुपाषाणेऽग्निवत्साधको व्यवहारमोक्षमार्गः स्वर्णस्थानीयनिर्विकारस्वोपलब्धिसाध्यरूपो निश्चयमोक्षमार्गः ।"19 मुक्तिमुक्तिमार्गयोः कार्यकारणसम्बन्धः
निजशुद्धात्मोपलब्धिः मुक्तिः निजात्मज्ञानश्रद्धानानुचरणात्मकश्च प्रयासो मुक्तिमार्गः । द्वावप्येकेनैवात्मना सह सम्वद्धौ, अखण्डैकवस्तुत्वात् । एकस्यैवात्मनः प्रागुत्तरवत्तिन्योरवस्थयोः मुक्तिमार्गमुक्त्योरभिन्नत्वमेकत्वं वा स्वीकर्तुं शक्यते गुणगुणिनोरवस्थाऽवस्थायिनोरभिन्नत्वादेकत्वाच्च । उभयोश्चात्र परम्परया कारणकार्यसम्बन्धः स्वीकृतः । 15. (क) समयसारस्य पुण्याधिकारः, (ख) प्रवचनसारस्य ज्ञानतत्त्वप्रज्ञापनाधिकारः, 16. नियमसार: टीका गाथा 2, 17. द्रव्यसंग्रहः, गाथा 39, 18. तत्त्वार्थसारः, गाथा 39, 19. बृहद्द्रव्यसंग्रहटीका गाथा 39।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1abeb8dd5a7c7d812004f3ac271626b10d9f66245e7c7b2f090fedd352d7fbcc.jpg)
Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102