Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi

View full book text
Previous | Next

Page 55
________________ * जम्बूद्वीप तस्मात्सम्यग्दर्शनादित्रयात्मक इति । अत्र नाप्रसिद्धो धर्मी मोक्षमार्गमात्रस्य सकलमोक्षवादिनामविवादास्पदस्य धर्मित्वात् । तत एव नाप्रसिद्ध विशेष्यः पक्षः नाट्यप्रसिद्धविशेषणः सम्यग्दर्शनादित्रयात्मकत्वस्य व्याधिमोक्षमार्गे रसायनादौ प्रसिद्धत्त्वात् । न हि रसायनश्रद्धानमात्रं सम्यग्ज्ञानाचरणरहितं सकलाभयविनाशनायालम् । नापि रसायनज्ञानमात्रं श्रद्धानाचरणरहितम् । न च रसायनाचरणमात्रं श्रद्धानज्ञानशून्यम् । तेषामन्यतमापाये सकलव्याधिविप्रमोक्षलक्षणस्य रसायनफलस्यासम्भवात् । तद्वत्सकलकर्ममहाव्याधिविप्रमोक्षोऽपि तत्त्वज्ञानज्ञानाचरणत्रयात्मकादेवोपायादनपायमुपपद्यते तदनुपपत्तेः । " तदन्यतमापाये यथा केवलं रसालफलस्य ज्ञानेन श्रद्धानेन क्रियानुकरणमात्रेण वा रसास्वादाभावः तथैव केवलं मोक्षमार्गस्य ज्ञानेन श्रद्धा नेन क्रियानुकरणमात्रेण वा साक्षान्मोक्षमार्गाभावः । यतो हि - ज्ञानभावे केवलं श्रद्धानाचरणाभ्यां किमज्ञानवैशिष्ट्यादसमीचीनत्वमेव तयोः । श्रद्धानाभावे च ज्ञानाचरणयोः किमुपयोगित्वमास्तिक्यबुद्धयभावे फलमाप्स्यामि न वेति संशयतुलारोहणात् । दृढतरविश्वासाभावात् रथ्यापुरुषवत् पित्तोदयाकुलितबुद्धिस्तस्य । कः विश्वसेत् ? न कोऽपीत्यर्थः । ज्ञानश्रद्धानसद्भावेऽपि प्रयोगरूपाचरणक्रियाभावात् किमिदं फलम् ? निश्चीयतेऽतो यत्त्रयाणामन्यतमापाये नैव मोक्षमार्गः; तस्य त्रितयकल्पनैव ज्यायसीति त्रयाणामविनाभावित्वादन्यतमाभावे सर्वेषां लोपप्रसङ्ग एकस्य सद्भावे सर्वसद्भाव इति नियमः । तथा च यत्र ज्ञानश्रद्धानक्रियाणां समायोगः तत्रैव फलं दृश्यते नान्यत्र । ननु "अनन्ताः सामायिकमात्रसिद्धाः" इत्यागमवचनान्न मुक्तिमार्गस्य त्रितयत्व - मिति चेत्; तन्न सामायिकस्यापि त्रितयोपपत्तः । तथाहि - चिदचिदात्मक समस्त परद्रव्येषु रागद्वेषव्यपोहनं निजात्मनि वा स्वीयनिवेशनं सामायिकमुच्यते 10 । मुक्तिमार्गाश्रयं ग्रहीतुं च तस्य महत्त्वं दृश्यते । यतस्ततो ह्यागच्छतां कर्मणां निरोधः संवरो नाम । सत्येवञ्च संवरे युगपदेवात्मनि सज्ज्ञानश्रद्धानचारित्रोपपत्तेः, अतः "अनन्ताः सामायिकमात्रसिद्धा” इत्येतस्मादपि प्रस्फुटति मोक्षमार्गस्य त्रितयत्वम् । श्रीमद्भट्टाकलङ्कदेवोऽपि सम्पुष्टवानिदमेव - 11 " श्रनन्ताः सामायिकमात्र सिद्धा" इत्येतदपि त्रितयमेव साधयति । कथं ? ज्ञस्वभावस्यात्मनः तत्त्वं श्रद्दधानस्य सामायिकं चारित्रं सर्वसावद्यनिवृत्तिरिति प्रभेदेन संग्रहादिति । उक्तञ्च 9. प्राप्तपरीक्षा, टीका, कारिका 118, 10. योगसारप्रामृतम् 5 / 47, 11. तत्त्वार्थराजवातिकम् 1 / 1 /49 | Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102