Book Title: Jambudwip Part 01
Author(s): Vardhaman Jain Pedhi
Publisher: Vardhaman Jain Pedhi
View full book text
________________
जनाभिमतमुक्तिमार्गः * वस्तुतस्तु सुक्तेः कारणं कार्यञ्च मुक्तिः स्वयमेव । यतो हि कारणकार्ययोरभिन्नत्वमेकत्वं वा स्वीकृतमेव जैनाचार्यः । तथा हि तदेव कारणं कार्यञ्चापीत्यनया पद्धत्या कारणकार्ययोरेकत्वं प्रसाधग्रत्येव ऋजुसूत्रनयो वर्तमानपर्यायमात्रविषयत्वात् । वस्तुतः कारणं द्विविधं निमित्तमुपादानञ्चेति । तत्र निमित्तकारणं तु कार्यसम्पादने स्वास्तित्वसूचकमेव स्वयमेव कार्ये सजाते सति यदुपर्यारोपणं तन्निमित्तमिति लक्षणात् उपादानकारणं त्रैकालिकक्षणिकभेदाद् द्विविधमास्ते। तत्र त्रैकालिकोपादानमपि कार्योत्पन्नो न मूलहेतुः तदसद्भावेऽपि कार्यस्यादर्शनात्, यथा सम्यक्त्वपर्यायोत्पादे चेत् श्रद्धागुणत्रकालिकोपादानं मूलहेतुः तर्हि तस्य सर्वदा सत्त्वात् प्रागेव कथं न सञ्जातः सम्यक्त्वपर्यायोत्पादः । कार्ये सजाते सत्येव कारणमिदमस्येति व्यवहारात् नैवमाशङ्कनीयं यत्कारणसद्भावे कार्य भवेन्न वा भवेदिति ।
अनन्तरपूर्वक्षणवर्तिपर्यायः तदभावो वा न कार्यस्य नियामकं कारणं स्यात् 'कारणानुविषायोनि कार्याणि' इत्यनतिक्रमणाभावात् । पूर्वक्षणवर्तिपर्यायश्चेदुत्तरपर्यायस्य कारणं तर्हि पूर्ववदेवोत्तरपर्याय उत्पद्येत, न चैवं भवति मिथ्यापर्यायानन्तरं सम्यक्वत्पर्यायोत्पाददर्शनादन्यथा मुक्तिमार्गस्य लोपे सति मुक्तेरभावप्रसङ्गः । पूर्वपर्यायस्य चाभावकारणत्वे तु बौद्धमतानुषङ्गः मिथ्यामतवादश्चायाति । मिथ्यामतवादस्त्वेवम्-पूर्ववर्तिमिथ्यात्वपर्यायस्याभावः तदुत्तरवर्तिसम्यक्त्वपर्यायस्य कारणं मिथ्यापर्यायस्य वा। प्रथमस्तावन्मिथ्यात्वपर्यायाभावे सति सम्यक्त्वपर्यायोत्पादो भवेदेव; न चैवं भवति तदनन्तरं मिथ्यात्वपर्यायोत्पाददर्शनादन्यथा सर्वेषां जीवानां सम्यग्दृष्टित्वं ततश्च संसारोच्छेदप्रसङ्गः । स चागमविरोधादुपेक्ष्यः द्वितीयपक्षे तु सम्यक्त्वपर्यायोत्पादाभाव एव सिद्धग्रति प्रत्यक्षत आगमतो वा तद्विरुध्यत एवान्यथा सर्वेषामेव मिथ्यादृष्टित्वं प्रसज्यते ततश्च मुक्तेरेवोच्छेदप्रसङ्गः समायाति न चायं न्यायोचितः पन्थाः कुतो न मिथ्यामतवादः । आत्मा एव मोक्षमार्गः
_धर्मशर्मदृष्टया खलु सर्वस्मिन्नपि लोके आत्मा एव वरः ज्ञस्वभावत्वात् सुखदुःखसंवेदनाच्च । तं विहाय नान्यत्र सुखस्य लेशोऽपि वर्तते । सुखमयश्चात्मनः स्वभाव एव । मुक्तौ तु परिपूर्णतया सुखसद्भावात् ज्ञायते यन्मुक्तेराश्रयोऽपि केवलमात्मैवास्तु तत्र च निगदन्त्येव जिनाः जैनाश्च निर्द्वन्द्व निराकुलं सुखमिति । भवत्येव परिपूर्णतया सुखावाप्तिस्तत्र मुक्तजीवानाम् । मुक्तेस्तु सर्वथा सुखसम्पन्नत्वात् प्रतीयते यत्तत्साधनमपि सुखमयं भवेत् साध्याविनाभानित्वात्साधनस्य । नान्यथा साध्यसिद्धिर्भवेत् ।
- सर्वत्र सर्वदा च निजात्मा हि श्रेयस्करः । अहमात्मैव न चान्यन्ममेत्यनुभूतिजन्यप्रतीतिलक्षणेन स्वपरभेदविज्ञानमूलनिजात्मनः परिज्ञानेन स्वात्मन्येव सङ गुप्य स्वरूपे चरण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/df63c5725f2cb3d9fd940f194777e76dcdea27345803dcec88189c1a79486457.jpg)
Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102