Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
जैनवार्तिकवृत्तौ ।
·
११
अथ स्वयं तदपि नास्ति । यतः
यद्यर्थवेदनं ज्ञानमात्मनेाऽपि प्रकल्प्यते । सुशिक्षितो बदुः स्कन्धं स्वमारोहतु दासवत् ॥ तथाहि वेद्यतेऽनेनेति वेदनम्, वेद्यते तदिति वैद्यमिति विरुद्धयोः करणकर्मणोः कथमेकत्र सद्भाव इति । कथमात्मानमात्मनाऽसौ वेत्तीति व्यपदेशः । तस्मात्कल्पिताः क्रियाकाकव्यपदेशाः प्रवर्त्तमाना न वस्तुं विरुन्धन्ति । अपि च प्रमासिद्धे वस्तुनि को विरोधः । एतदेवाह - प्रदीपवदिति । दीपवनोपपद्येत बाध्यवस्तुप्रकाशकम् । अनात्मवेदने ज्ञाने जगदान्ध्यं प्रसज्यते ॥ ४ ॥
सजातीयानपेक्षत्वेन दृष्टान्तः । तथाहि - ज्ञानमात्मप्रक"शकत्वाऽन्यथानुपपत्तेः प्रदीपवत् । एनमेव हेतुं विपर्यये बाधकप्रमाणेन समर्थयितुमाह - नोपपद्येतेत्यादि । श्रात्मानं वेदयतीत्यात्मवेदनम्, न तथा । तस्मिन् सति न केनचित् किञ्चिद् विज्ञायेतेत्यन्धमूकं जगत् स्यात् । तथाहि यत् सदुपलम्भक प्रमाण गेोचरतावतारि न भवति तत् सकलमेव न सद्व्यवहृतिपथमवतरति । यथा शशविषाणम् । नावतरति च सदुपलम्भक प्रमाणगाचरतामात्मव्यापारादिलक्षणं विज्ञानमिति । तथाहि तदूग्राहकं प्रत्यक्षे वा स्यात् परोक्षं वा ? | प्रत्यक्षमपि किमिन्द्रियार्थ संप्रयेोगजम्, अहोस्विदात्ममनः सन्निकर्षसमुत्थम्, उतस्वित्स्वसंवेदनं यदथोऽयमारम्भ इति । तत्र ज्ञानेनेन्द्रियस्य मन्निकर्षाभावादनभ्युपगमाच्च न प्रथमः पक्षः । नापि द्वितीयः । मनःसद्भावे प्रमाणाभावात् । न चाप्रमाणं वस्तु विपश्चितः समाश्रयन्ते । न च युगपज्ज्ञानानुत्पत्तिस्तत्प्रमाणम् । तस्या अन्यथाऽप्युपपत्तेः । तथाहि यस्मिन्नात्माऽऽभिमुख्यं प्रतिपद्यते तस्मिन् विज्ञानमु

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 170