Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
१०४
प्रत्यक्षपरिच्छेदः। कञ्चित्साधनमर्थ निरासे ज्ञानशून्यवादिनः । तदेवाह- ज्ञानशू न्यवत इत्यादि। ज्ञानशून्यवतो नास्ति निरासेऽर्थस्य साधनम् । संवित्सिद्धप्रतिक्षेपे कथं स्याज्ञव्यवस्थितिः ॥ ____ अनुभवसिद्धस्य चार्थक्रियाकारिणः सकलजन्तुमाधारणस्यार्थस्य निषेधज्ञानशून्य योरपि कथं स्याद् व्यवस्थितिरिति । तदेवाह । संवित्मिद्धस्येत्यादि ॥ प्रथायमर्थः, किमवयविरूपः, किंवा परमाणुस्वरूप इति ? । तत्रावयविनेा भवद्भिरेव निरस्तत्वात् परमाणू नामप्रतिमासनान्न बाह्योऽयमाकार: किन्तु जानाकारवत्तथा प्रतिभातीति । ननु ज्ञानाकारेऽप्येष प्रसङ्गो दुर्निवारः । तथाहि-तद्देशत्वान्नी लानीलत्वादिके विरोधः चित्रद्वैतेऽपि समानः । न च ज्ञानं परमाणुमात्रं चकास्ति । अथ यथा बाह्यस्यैकावयवावरणेऽपि अवयवान्तरप्रतिभासलक्षणे विरोधः नैवं ज्ञानाकारस्य । माभदयं, नीलानीलादिकः केन | निवार्यते । यथा चायमर्थस्तथा सविकल्पकसिद्धौ प्रतिपादयि. ष्यतीति । अत्र बहु वक्तव्यं तच्च नोच्यते ग्रन्यविस्तारभया. | दिति । तदेवं बाह्यमर्थ व्यवस्थाप्येदानी द्रव्यादीनां लक्षण माह-पर्यवस्यन्तीत्यादि। पर्यवस्यन्ति पर्याया द्रव्यं द्रवति सर्वदा । सद्रशः परिणामे यस्तत्सामान्यं द्विधा स्थितम् ॥
पर्यवस्यन्ति क्षणिकत्वाव्यावर्तन्त इति पर्यायाः। पर्याया इत्युपलक्षणं चैतत्सहभाविनां गुणानां रूपादीनामिति । द्रवन्ति गच्छन्ति तांस्तान्यर्यायान् परिणामनित्यत्वादिति । द्रव्यमिति । परपरिकल्पितं सामान्यं पूर्वमेव निरस्तमिदानी स्वा

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170