Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
जैनवार्तिकवृत्तौ ।
१२३
A
राणां तेषामप्रतिभासनात् । संयोगात्तथाभासनमिति चेत् न तेषां संयोगः किमेरुदेशेन, सर्वात्मना वा ? । नैकदेशेन । निर्देशत्वात्परमागूनाम् । नावि सर्वात्मना। पिण्डस्याणुमात्रत्वप्रसङ्गात् । तन्न परमाणवः प्रतिभासविषयाः, किं त्वेकपरियामपरिणतं स्तम्भादि द्रव्यं प्रतिभासगेोचरचारि तद्यथा अर्थचीनावयवसम्बन्ध्येन्द्र यजनितप्रत्यक्षण विभिन्न देशव्यवस्थितपरीक्षावयवव्यापि पुराव्यवस्थितवस्तु प्रतीयते, तथा वर्त्तमान पर्यायसम्बन्धेन्द्रियात्स्मृति सहायादुत्पन्नेन प्रत्यभिज्ञाप्रत्यंक्षेजातीत देशकालादिव्यवस्थितानेक पर्यायव्याप्येकं प्रत्यक्षमिति न कश्चिद्दोषः । न च क्षणिकानुमानबाधितत्वात्प्रत्यभिधानं भ्रान्तमिति वाच्यम् । अन्यथा विशददर्शनं हिमांशुधवलिमानं परिच्छिददुत्पद्यमानं नोलं निशोथिनीनाथबिम्बं सत्वान्नीलोतपलवदित्यनुमानमनुभवन्न प्रमाणं स्यात् । अथास्य प्रत्यक्षबाधितत्वान्न प्रामाण्यम् । क्षणिकानुमास्यापि प्रत्यभिज्ञा प्रत्यक्षबाधायां समानम् । अथ प्रत्यभिज्ञानस्य भ्रान्तत्वात्क्षणिकानुमानस्य प्रमाणता तहतरेतराश्रयत्वम् । सति हि प्रत्यभिज्ञानस्य भ्रान्तत्वेऽस्य प्रमाण्यं, सत्यस्य प्रमाण्ये प्रत्यभिज्ञाभ्रान्ततेति । न च प्रत्यक्षमनुमानेन बाध्यते । तत्पूवकत्वादनुमानस्य । अन्यथानु. मानपूर्वकत्वो ऽनवस्था स्यात् ततः सिद्धमबाधितं प्रत्यभिज्ञाप्रत्यक्षम् । कि यदि नियतव्यक्ति संबन्धेन्द्रियजनितप्रत्यक्ष नातीतादिपर्यायात्मकद्रव्यग्राहि स्यात् तद्यदेतत्सुप्रसिद्धं बघनुमानं तदपि न स्यात् । तद्धि महानसादिव्यवस्थित धूमध्वजसं. बन्धेन्द्रियजनितप्रत्यक्षेणःशे षत्रैलोक्यो दर विवर सिंधू मवह्निवि शेषव्यवस्थित तिर्यक्सामान्यये । व्र्व्याप्तिग्रह से सति वर्तते । तच्चेन्द्रियसम्बद्धवस्तुमात्र विषयप्रत्यक्षतायां न स्यात् । तस्माद्यथा

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170