Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 126
________________ जैनवार्तिकवृत्तौ। कारणमभ्युपगम्य तथा भावठयवस्था । तत्र हि योगपद्यस्यैव सम्भवति । तथा हि-। तानि स्वं स्वमुपादेयकार्यमुपादान. भावेन परस्परकार्यत्वे सहकारिभावेन जनयन्तीति कुतः क्रमः । तत्परापेक्षया कल्पित एवं क्रमयोगपद्यभावः । न च निरंशं वस्तु अनेककार्यजनक संभवति । सांशताप्रसङ्गात् । म चोपादान सहकारिभाव: संभवति । तथाहि-द्वितीयांशमाबाभावादेकमेव जनयेत् । न चैकं जनकमुपेयते। सम्म क्षणिकप ऽपि क्रमयोगपद्यक्रियासंभवः । किं च क्षणिक वस्तु सव्यापारं वा कार्यं कुर्यानियापार वा ? । निर्यापारस्य करणे खपुष्पस्यापि कार्यक्रिया स्यात् । व्यापारवत्त्वे प्रथमे क्षणउत्पद्यते द्वितीये व्याप्रियत इति क्षणिकत्यहानिः । अथ प्राक्कालसावित्वमेव व्यापारो नापरस्तर्हि तत्क्षणभाविनां जग. स्क्षणानामपि कारणत्व स्यात् । तथा च सूत्ररूपतापि घटस्य स्यात् । न चोपेयार्थिनां नियतकारिणोपादानं स्यात् । न चानन्तरक्षणविनष्टे चिरतरविनष्टे वा कश्चिद्विशेषोस्तीति चिरतरविनष्टमपि कुर्यात् इति मृतेन कुक्कुटेन वासितव्यम् । ततो घटरूपतया परिणमनमेव मृस्पिगडस्य कारणत्वं न प्राग्भावः । न चानुसन्धातारमात्मानमन्तरण कार्यकारणभावप्रतीतिः । तथाहि-कारणविषयेण प्रत्यक्षेण कारणमेव प्रतिपनं कार्य कार्य विषयेणापि कार्यमेव न कारणम्। अथ निवंकल्पकदर्शनदयान. न्तरमिदमस्मादुत्पन्न मित्येवमाकारं स्मरणज्ञानमुदेति तेन तथाभावग्रहः । तदप्यमत् । स्मरणं हि अनुभवानुसार्येवोत्पद्यते । न चानुभवदयेन कार्यकरणभावो ऽनुभूत.। येन तथास्मरणं स्यात् । प्रात्मनश्चाभावे कस्य तत्स्मरणं स्यात् । तन्न क्षणिकपक्षेपि कार्यकारणभावप्रतीतिः । किं च कार्य सदुत्पद्यते सत्तासत्? । यदि

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170