________________
जैनवार्तिकवृत्तौ। कारणमभ्युपगम्य तथा भावठयवस्था । तत्र हि योगपद्यस्यैव सम्भवति । तथा हि-। तानि स्वं स्वमुपादेयकार्यमुपादान. भावेन परस्परकार्यत्वे सहकारिभावेन जनयन्तीति कुतः क्रमः । तत्परापेक्षया कल्पित एवं क्रमयोगपद्यभावः । न च निरंशं वस्तु अनेककार्यजनक संभवति । सांशताप्रसङ्गात् । म चोपादान सहकारिभाव: संभवति । तथाहि-द्वितीयांशमाबाभावादेकमेव जनयेत् । न चैकं जनकमुपेयते। सम्म क्षणिकप
ऽपि क्रमयोगपद्यक्रियासंभवः । किं च क्षणिक वस्तु सव्यापारं वा कार्यं कुर्यानियापार वा ? । निर्यापारस्य करणे खपुष्पस्यापि कार्यक्रिया स्यात् । व्यापारवत्त्वे प्रथमे क्षणउत्पद्यते द्वितीये व्याप्रियत इति क्षणिकत्यहानिः । अथ प्राक्कालसावित्वमेव व्यापारो नापरस्तर्हि तत्क्षणभाविनां जग. स्क्षणानामपि कारणत्व स्यात् । तथा च सूत्ररूपतापि घटस्य स्यात् । न चोपेयार्थिनां नियतकारिणोपादानं स्यात् । न चानन्तरक्षणविनष्टे चिरतरविनष्टे वा कश्चिद्विशेषोस्तीति चिरतरविनष्टमपि कुर्यात् इति मृतेन कुक्कुटेन वासितव्यम् । ततो घटरूपतया परिणमनमेव मृस्पिगडस्य कारणत्वं न प्राग्भावः । न चानुसन्धातारमात्मानमन्तरण कार्यकारणभावप्रतीतिः । तथाहि-कारणविषयेण प्रत्यक्षेण कारणमेव प्रतिपनं कार्य कार्य विषयेणापि कार्यमेव न कारणम्। अथ निवंकल्पकदर्शनदयान. न्तरमिदमस्मादुत्पन्न मित्येवमाकारं स्मरणज्ञानमुदेति तेन तथाभावग्रहः । तदप्यमत् । स्मरणं हि अनुभवानुसार्येवोत्पद्यते । न चानुभवदयेन कार्यकरणभावो ऽनुभूत.। येन तथास्मरणं स्यात् । प्रात्मनश्चाभावे कस्य तत्स्मरणं स्यात् । तन्न क्षणिकपक्षेपि कार्यकारणभावप्रतीतिः । किं च कार्य सदुत्पद्यते सत्तासत्? । यदि