________________
-
१२२
अनुमानपरिच्छेदः। सरिकमुत्पद्यतेग्थासन्किं न व्योमोत्पलम् । अथ प्रागभावना. वान व्योमोत्पलस्योत्पत्तिः । ननु प्रागभावेऽपि तस्य किमिति नास्ति । उत्तरकालमभावादितिचेत् । इतरेतराश्रयत्वम् । तथाहि-यस्योत्तरकालमुत्पत्तिस्तस्य प्रागभाव यस्य प्रागभावस्तस्योत्पत्तिरिति । तन्नै कान्तिकनित्येऽनित्ये वार्थक्रियायम. स्तीति नित्यात्मन्येवार्थ क्रियाकारित्वेन सत्त्वम् । तथाहिस एव मृत्पिण्डो घटरूपतया परिणतइति प्रतीतिः । यदपं हि कारणमुपलभ्यते तद्रूपमेव कार्यमपि । तदेव द्रव्यं तेन पर्यायेण परिणामदुपलभ्यते, नात्यन्तविभिन्न ममिन्नं वा घटादि। कार्य प्रतीयते । तदुक्तम्-द्रवति गच्छति तास्तान् पर्यायानिति । द्रव्यमेववान्ताङ्ग बहिरङ्गाः पर्यायाः । ननु द्रव्यस्य कुतः सत्वसिद्धिः १ । प्रत्यभिज्ञाप्रत्यक्षादिति ब्रूमः । तथोहि । यदबाधितबोधगोचरचारि तत्सत् । यथा स्तम्भकुम्भादि अबाधितप्रत्यभिज्ञाप्रत्यक्षगोचरचारि पूर्वोत्तरपर्यायव्यापि द्रव्यम् । भेददर्शनमपि भेदवादिभिरिन्द्रियान्वयव्यतिरेकविधायितया प्रत्यक्षमुपेयतेऽ ताग्भेदाध्यवसायिन्यपि पूर्वदर्शनाहितसंस्कारप्रबोधप्रभवस्मरणसहायेन्द्रियान्वयव्य तिरेकानुविधायिनी प्रत्य. भिज्ञा कथं न प्रत्यक्षम् । न चाक्षं वर्तमानकालभाविनिप्रत्यासीदत्यतस्तदनुसारिणी धीस्तत्रैव प्रवर्तितुमुत्सहते पूर्वन्नेति वाच्यम् । एवं हि विशददर्शनावसेयास्तम्भादयोऽपि न प्रत्यक्षाः स्युः । तथाहि-अर्थाधीनावयवसंबन्धेन्द्रियजनितप्रत्यक्षायसेयमध्यपरावयवादिव्यापि स्तम्मादिद्रव्यं चार्थाधीनाव. यवमात्रपर्यवसितप्रत्यक्ष न स्यात् । परमाणुरूपाययवानां वाs प्रत्यक्षत्वात् । ततः सकलप्रमाणशन्याग्राह्यतापद्येत । अथ विततदेशव्यवस्थिताः परमाणनः प्रतिभासविषयाः । तदसत् । सान्त
-
-
-