________________
जैनवार्तिकवृत्तौ ।
१२३
A
राणां तेषामप्रतिभासनात् । संयोगात्तथाभासनमिति चेत् न तेषां संयोगः किमेरुदेशेन, सर्वात्मना वा ? । नैकदेशेन । निर्देशत्वात्परमागूनाम् । नावि सर्वात्मना। पिण्डस्याणुमात्रत्वप्रसङ्गात् । तन्न परमाणवः प्रतिभासविषयाः, किं त्वेकपरियामपरिणतं स्तम्भादि द्रव्यं प्रतिभासगेोचरचारि तद्यथा अर्थचीनावयवसम्बन्ध्येन्द्र यजनितप्रत्यक्षण विभिन्न देशव्यवस्थितपरीक्षावयवव्यापि पुराव्यवस्थितवस्तु प्रतीयते, तथा वर्त्तमान पर्यायसम्बन्धेन्द्रियात्स्मृति सहायादुत्पन्नेन प्रत्यभिज्ञाप्रत्यंक्षेजातीत देशकालादिव्यवस्थितानेक पर्यायव्याप्येकं प्रत्यक्षमिति न कश्चिद्दोषः । न च क्षणिकानुमानबाधितत्वात्प्रत्यभिधानं भ्रान्तमिति वाच्यम् । अन्यथा विशददर्शनं हिमांशुधवलिमानं परिच्छिददुत्पद्यमानं नोलं निशोथिनीनाथबिम्बं सत्वान्नीलोतपलवदित्यनुमानमनुभवन्न प्रमाणं स्यात् । अथास्य प्रत्यक्षबाधितत्वान्न प्रामाण्यम् । क्षणिकानुमास्यापि प्रत्यभिज्ञा प्रत्यक्षबाधायां समानम् । अथ प्रत्यभिज्ञानस्य भ्रान्तत्वात्क्षणिकानुमानस्य प्रमाणता तहतरेतराश्रयत्वम् । सति हि प्रत्यभिज्ञानस्य भ्रान्तत्वेऽस्य प्रमाण्यं, सत्यस्य प्रमाण्ये प्रत्यभिज्ञाभ्रान्ततेति । न च प्रत्यक्षमनुमानेन बाध्यते । तत्पूवकत्वादनुमानस्य । अन्यथानु. मानपूर्वकत्वो ऽनवस्था स्यात् ततः सिद्धमबाधितं प्रत्यभिज्ञाप्रत्यक्षम् । कि यदि नियतव्यक्ति संबन्धेन्द्रियजनितप्रत्यक्ष नातीतादिपर्यायात्मकद्रव्यग्राहि स्यात् तद्यदेतत्सुप्रसिद्धं बघनुमानं तदपि न स्यात् । तद्धि महानसादिव्यवस्थित धूमध्वजसं. बन्धेन्द्रियजनितप्रत्यक्षेणःशे षत्रैलोक्यो दर विवर सिंधू मवह्निवि शेषव्यवस्थित तिर्यक्सामान्यये । व्र्व्याप्तिग्रह से सति वर्तते । तच्चेन्द्रियसम्बद्धवस्तुमात्र विषयप्रत्यक्षतायां न स्यात् । तस्माद्यथा