Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
जैनवार्तिकवृत्ती |
तु खरतुरग विषायायोरिव का नाम विरोधः । श्रन्यारोपितानालेपितयोर्भावाभावयोः परस्परपरिहारस्थितक्षणो विरोधः । तथाहि नित्यत्वं निवृत्तिस्तुछरूपाऽनित्यत्वं अनित्यत्वनिवृत्तिश्च नित्यत्वं, तयेाः कथ न विरोधः । तदप्यसत् । यतेा न तु च्छरूपोऽभावः प्रमाणगोचरचारीति प्रबन्धेन प्रतिपादितंः कथं तर्हि भाषाभावात्मकं वस्तु । नैतदस्ति । यस्मात्परदेशा - द्यपेक्षयाभाव एवाभावः । नापि प्रागभावप्रध्वंसाभावविशेष
सत्तासमवायात्मकः । सत्तया सह संबधासिद्ध ेः । स हि समवायलक्षणोम्युपगम्यते तस्य च पूर्वमेव निरस्तत्वादिति । किं च सत्तासमवायादनित्यतायामात्मादिष्वपि नित्यत्वप्रसङ्गः । यथा च समवायोऽन्यद्वा एकान्त नित्यत्वं वस्तु न संभवति । तथाग्रे प्रतिपादयिष्यामः ॥ तन्न कश्चिद्भावव्यतिरिक्तोऽसावोऽस्ति । येन विरोधः स्यात् । ततः सिद्धो नित्यानित्यात्मको घटः तत्सिद्धौ च न विरुद्धो हेतुः । नाप्यनैकान्तिकः ? । विपर्यये बाधकप्रमाणसद्भावात् । तथाहीदं सत्वमर्थक्रियांकारित्वेन व्याप्त सा च कूटस्थनित्यादनित्याच्च व्यावर्त्तमाना सत्वमादायैव निवर्त्तते । तेनोत्पादव्ययनीव्यवत्येव वस्तुनि सत्वमवतिष्ठते । न च सत्तासम्बधेन सत्वं वाच्यम् । सत्तादीनामसत्वप्रसङ्गात् । अपरसताभ्युपगमे वानवस्था । तद्व्यापिलक्षणमतिव्यापि च । शशविवाणादीनामपि सत्त्वप्रसङ्गात् । तेषां मकलशक्तिरहितत्वान्न सत्तासम्बन्ध इतिचेत्तर्हि शक्तिरेव सत्त्वे लक्षणं किं सत्तासम्बन्धेन । इतरेतराश्रयत्वं च स्यात् । तथाहि । सति सत्ता सम्बन्धे सवं, सति सत्वे सत्तासम्बन्धः । सा च कूटस्थस्य न विद्यते । तथाहितन्नित्यं क्रमेण वा शक्तिमत्स्यात्, यौगपद्येन वा ? । न तावत्क्रमेण सकलसामर्थ्योपपन्नस्यैकक्षण एवं समस्त कार्यकारणम
११

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170