________________
जैनवार्तिकवृत्ती |
तु खरतुरग विषायायोरिव का नाम विरोधः । श्रन्यारोपितानालेपितयोर्भावाभावयोः परस्परपरिहारस्थितक्षणो विरोधः । तथाहि नित्यत्वं निवृत्तिस्तुछरूपाऽनित्यत्वं अनित्यत्वनिवृत्तिश्च नित्यत्वं, तयेाः कथ न विरोधः । तदप्यसत् । यतेा न तु च्छरूपोऽभावः प्रमाणगोचरचारीति प्रबन्धेन प्रतिपादितंः कथं तर्हि भाषाभावात्मकं वस्तु । नैतदस्ति । यस्मात्परदेशा - द्यपेक्षयाभाव एवाभावः । नापि प्रागभावप्रध्वंसाभावविशेष
सत्तासमवायात्मकः । सत्तया सह संबधासिद्ध ेः । स हि समवायलक्षणोम्युपगम्यते तस्य च पूर्वमेव निरस्तत्वादिति । किं च सत्तासमवायादनित्यतायामात्मादिष्वपि नित्यत्वप्रसङ्गः । यथा च समवायोऽन्यद्वा एकान्त नित्यत्वं वस्तु न संभवति । तथाग्रे प्रतिपादयिष्यामः ॥ तन्न कश्चिद्भावव्यतिरिक्तोऽसावोऽस्ति । येन विरोधः स्यात् । ततः सिद्धो नित्यानित्यात्मको घटः तत्सिद्धौ च न विरुद्धो हेतुः । नाप्यनैकान्तिकः ? । विपर्यये बाधकप्रमाणसद्भावात् । तथाहीदं सत्वमर्थक्रियांकारित्वेन व्याप्त सा च कूटस्थनित्यादनित्याच्च व्यावर्त्तमाना सत्वमादायैव निवर्त्तते । तेनोत्पादव्ययनीव्यवत्येव वस्तुनि सत्वमवतिष्ठते । न च सत्तासम्बधेन सत्वं वाच्यम् । सत्तादीनामसत्वप्रसङ्गात् । अपरसताभ्युपगमे वानवस्था । तद्व्यापिलक्षणमतिव्यापि च । शशविवाणादीनामपि सत्त्वप्रसङ्गात् । तेषां मकलशक्तिरहितत्वान्न सत्तासम्बन्ध इतिचेत्तर्हि शक्तिरेव सत्त्वे लक्षणं किं सत्तासम्बन्धेन । इतरेतराश्रयत्वं च स्यात् । तथाहि । सति सत्ता सम्बन्धे सवं, सति सत्वे सत्तासम्बन्धः । सा च कूटस्थस्य न विद्यते । तथाहितन्नित्यं क्रमेण वा शक्तिमत्स्यात्, यौगपद्येन वा ? । न तावत्क्रमेण सकलसामर्थ्योपपन्नस्यैकक्षण एवं समस्त कार्यकारणम
११