Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad
View full book text
________________
३२८
अनुमानपरिच्छेदः । सामान्यपरिणामवन्तोऽस्पष्टाः परोक्षस्य विषयाति । ननु विशेषविषयत्वेऽनुमानादेः कथं न तार्णादेः प्रतीतिर्न दूरप्रत्यक्षेऽपि तस्या प्रतीतेः । तदेवं न सामान्य विषयः । नाप्यन्या. पोहः। स हि पर्यदासरूपो वास्यात्प्रसज्यरूपो वा? । प्रथमपक्षे वस्त्वन्तरमेव स्यात् । तच्च सामान्यं वा विशेष वेति विधिरेव शब्दार्थः स्यात् । द्वितीये तु निषेधमेव सात्रेति प्रतिपाद्यते । तस्य च शब्दाद्यर्थत्वम् । अयुक्तप्रतीतेः । तथा. हि-परप्रतिपादनार्थ तस्य प्रयोगः । परस्तु नीलाद्यर्थी नानीलनिषेधमान जिज्ञासति । प्रतिपादकोऽपि तथैव प्रतिपादयति। अजिज्ञासितं प्रतिपादयन्नप्रेक्षाकारी स्यात् । अथ किमानयामीति जिज्ञासायामनोलमपि जिज्ञासितं नीलमित्यनिषेध्य तेनैवं प्रतिपाद्यस्य विधावेव जिज्ञासा न प्रतिषेधमात्रे । प्रतिपादके।ऽपि तथैव प्रतिपादयति । सामादन्यप्रतिपत्तिरिति । नैतदस्ति । प्रतिपाद्यस्य सामान्येन विधावेव जिज्ञा. सा न प्रतिषेधमात्रे । विधिप्रतिपत्ती सामादन्यप्रतिषेध इति । किंधायमपोहा भावे भावस्य वा प्रतीयेत्, केवला वा? । प्रथमपक्षे भावयाः प्रतीतिः किं तेनैवानुमानादिना किं वा प्रमाणान्तरेण ? । यदि तेनैव तदा किं भावी प्रतीत्य प्रतीयते, किं वापोहप्रतीताविति । न तावत्प्रथमः परः । न हि नील. शब्देनानीलं प्रतीयते । प्रतीयमानत्वे वा कथं तनिषेध इति । नोलं वा प्रतीत्यानीलापोहप्रतीतो संवलन्ती प्रतीति: स्यात् । अथ नीलत्वमेवानीलापोहात्मकं प्रतीयमानमुपयव्यवहार रचयति तायातोऽस्मत्पथमिति। नापि द्वितीयः पक्षः । न हि केवलोपोहः प्रतीयते । पश्चात्तावित्यनुभवात् । नापि प्रमा. णान्तरं किंचित्तमानीलप्रत्यायकमास्ति । येन तदपोहः प्रती

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170