Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 136
________________ जैनवार्तिकवृत्तौ । १३१ त्वग्रहणमुच्यते । म वस्तुभूतसमाम परिया। मंत्रन्तरेण । सजातीयाविभागानुपपत्तेरिति । एकार्थक्रियाकारित्वात्मजासी यत्वमिति चेत् । क्रियायाः किमन्य क्रियैक्यादैक्यं किं वा स्वरूपेणेति । प्रथमपक्षे न स्यात् । द्वितीये तएवार्थक्रियाकारणाः किं नैकीभवन्ति अभ्युपेतानिश्चेति । तदेवमत्र बहु वक्तव्यं तच्च नोच्यते विस्तरभयादिति । तन्नापेोहेोऽपि परोक्षस्य विषय इति । एवं विषयविप्रतिपत्तिं निराकृत्येदानीं फलविप्रतिपत्तिं निराकर्तुमाह । प्रमाणफल सद्भावइति । यथैव हि प्रत्यक्षस्य प्रमाणमेव फलमर्थाधिगतिरूपं तदेव च प्रमाणपरिछेदकत्वात् । तथा परोक्षस्यापि विज्ञेयमिति । संख्याविप्रतिपत्ति निराकुर्वन्नाह । परोक्ष द्विविधमिति । परोक्षं द्विविधं प्राहुर्लिङ्गशब्दसमुद्भवम् । लैङ्गिकप्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥ अक्षाणां परं परोक्षम् । पारस्करादित्वात्सुडागमः । द्वौ विधौ प्रकारावस्येति द्विविधम् ' द्वैविध्यमेवाह-लिङ्गशब्दसमुद्भवमिति । लिङ्गजनितं शब्दजनितमेव परोक्षार्थनिश्चायक नान्यदिति । मन्वन्यदपि प्रत्यभिज्ञादिकं परोक्ष मन्यन्ते । तदेव लैङ्गिकप्रत्यभिज्ञादिभिन्नमन्ये चक्षते समानतन्त्राः । परेलिं प्रत्यभिज्ञादि विधाश्रुतमविप्लवमिति वचनादिति । तदयुक्तम् । यतः श्रौतं त्रिविधं भवति न त्वविप्लवमिति । तथाहि- - प्रत्यक्ष ेण परोपदेशसहायेन यज्जन्यते ज्ञानं तच्छ्रतं प्रत्यक्षपूर्वकम् । तथा लिङ्गेन परोपदेशरहितेन जनितं श्रीतं लिङ्गपूर्वकम् । पेरेrपदेशेन तु केवलेन जनितं शब्दपूर्वकमिति । एवं त्रिविध भवति श्रौतं न त्वविष्टम् । प्रमाणमित्यर्थः । प्रत्यक्षे हि परोपदेशस्यानर्थकत्वात् । अथ तत्रापि किञ्चित्परेश तर्हि तत्रानु

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170