________________
जैनवार्तिकवृत्तौ ।
१३१
त्वग्रहणमुच्यते । म वस्तुभूतसमाम परिया। मंत्रन्तरेण । सजातीयाविभागानुपपत्तेरिति । एकार्थक्रियाकारित्वात्मजासी यत्वमिति चेत् । क्रियायाः किमन्य क्रियैक्यादैक्यं किं वा स्वरूपेणेति । प्रथमपक्षे न स्यात् । द्वितीये तएवार्थक्रियाकारणाः किं नैकीभवन्ति अभ्युपेतानिश्चेति । तदेवमत्र बहु वक्तव्यं तच्च नोच्यते विस्तरभयादिति । तन्नापेोहेोऽपि परोक्षस्य विषय इति । एवं विषयविप्रतिपत्तिं निराकृत्येदानीं फलविप्रतिपत्तिं निराकर्तुमाह । प्रमाणफल सद्भावइति । यथैव हि प्रत्यक्षस्य प्रमाणमेव फलमर्थाधिगतिरूपं तदेव च प्रमाणपरिछेदकत्वात् । तथा परोक्षस्यापि विज्ञेयमिति । संख्याविप्रतिपत्ति निराकुर्वन्नाह । परोक्ष द्विविधमिति । परोक्षं द्विविधं प्राहुर्लिङ्गशब्दसमुद्भवम् । लैङ्गिकप्रत्यभिज्ञादि भिन्नमन्ये प्रचक्षते ॥
अक्षाणां परं परोक्षम् । पारस्करादित्वात्सुडागमः । द्वौ विधौ प्रकारावस्येति द्विविधम् ' द्वैविध्यमेवाह-लिङ्गशब्दसमुद्भवमिति । लिङ्गजनितं शब्दजनितमेव परोक्षार्थनिश्चायक नान्यदिति । मन्वन्यदपि प्रत्यभिज्ञादिकं परोक्ष मन्यन्ते । तदेव लैङ्गिकप्रत्यभिज्ञादिभिन्नमन्ये चक्षते समानतन्त्राः । परेलिं प्रत्यभिज्ञादि विधाश्रुतमविप्लवमिति वचनादिति । तदयुक्तम् । यतः श्रौतं त्रिविधं भवति न त्वविप्लवमिति । तथाहि- - प्रत्यक्ष ेण परोपदेशसहायेन यज्जन्यते ज्ञानं तच्छ्रतं प्रत्यक्षपूर्वकम् । तथा लिङ्गेन परोपदेशरहितेन जनितं श्रीतं लिङ्गपूर्वकम् । पेरेrपदेशेन तु केवलेन जनितं शब्दपूर्वकमिति । एवं त्रिविध भवति श्रौतं न त्वविष्टम् । प्रमाणमित्यर्थः । प्रत्यक्षे हि परोपदेशस्यानर्थकत्वात् । अथ तत्रापि किञ्चित्परेश तर्हि तत्रानु