________________
१३०
अनुमानपरिच्छेदः । किं तु स एष दृश्यविकल्प्यश्चे को कृत्य वहीरूपतयाध्यस्तोवं पञ्चमाकारः । वैभाषिकाणां तु आकाराभावाज्ञानमेव वही रूपतयाऽध्यस्तमईचतुर्थकोरोऽयोहइति न निषेधमात्रः केवलः । तस्य विधिरूपत्तया वस्तुस्वभावव्यवस्थितेः ।
स्वभावपरभावाभ्यां यस्माद् व्यावृत्तिभागिनः । यतायतार्थानां व्यावृत्तिस्तन्निबन्धनाः ॥ जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः । तस्माद्यो येन शब्देन विशेषः संप्रतीयते ॥ नशक्यस्ततोऽन्येन तेन भिन्नव्यवस्थितिरिति ।
तेन न सर्वशब्दानां पर्यायंता । नापि लिङ्गिनोरभावः, विशेषणविशेष्य मावो वा । तथाहि स्वकारणादेव भावाः सकलसजातीयविज्ञातीयव्यावृत्ता जायन्ते । तेनान कव्याव त्यात्मकेषु एकव्यावृत्त्या निश्चयेऽपि व्यावृत्त्यन्तरेण निश्चितास्तनिश्चयाय शब्दस्लिङ्गप्रयोगे न पर्यायतामाप्नोति । वस्तूभूते चोपाधी प्रवर्त्तमानः शब्दः उपाधिमन्तमशे. षोपाध्युपकारकं निश्चित्यावशेषोपाधीनां निश्चयात प.1 यतां शब्दान्तराणामापादयेदित्यादयो दोषा वास्तवे शब्दार्थ ग्रन्थकारैः प्रतिपादितास्तस्मादपेहपक्षो ज्यायानिति । अत्रोच्यते । यथावदुक्तं दृश्यविकल्पयोरेकीकरणमपोहो न तुच्छरूप इति । तदेकोरणं किं तेनैव ज्ञानान्तरेणेति ? । न तावत्तदेव विज्ञानं स्वाकारं दृश्यं च पृथक् प्रतिपाद्यैक्यं प्रतिपद्यते । अप्रतीतेः, क्षणिकत्वाच्च । नापि ज्ञानान्तरम् । तद्विभिन्न स्यात्, एकं वा भवेदिति । मिन्नं कथमेकं प्रत्येति । स्वसंवेदनं हि ज्ञान न विषयंदर्शनं तु दृश्यविषयमिति । एकं तु यदि द्वयं न प्रत्येति कथमैक्यम् । अथैक्य प्रत्येति कथं द्वयोरै क्षमिति। अथ वासनाप्रबोधादिकल्पविज्ञानं सकल जातीयसाधारणमुत्पद्यतेहत्येक