________________
९३२
अनुमान परिच्छेदः ।
मानमेव स्यात् । तथाहि परोक्ष हि वस्तुनः साक्षात्प्रतीयते किंतु अन्यदर्शनादन्यस्माच्च यद्यन्नियतात्प्रतीयेत तदा यत कुतश्चित्सर्वं प्रतीयेत । नियता च प्रतीतिलौकिकमेव तत्र यदाक्षानुमारि प्रत्यभिज्ञाज्ञानं तत्प्रत्यक्षमेव न श्रौतम् । यत्तु प्रत्यक्षानिश्चितं दृष्टसाधर्म्यादर्थक्रियाकारित्वं निश्चीयते तलैङ्गिकमेवेति कुतस्त्रिविधं पराक्षमिति । अथायमपि वह्निादिनम र्थइति सामर्थ्यविषयं प्रत्यभिज्ञानं न प्रत्यक्षम् | सामर्थ्यस्य परोक्षत्वात् । नाप्यनुमानम् । व्याप्तिस्मरणाद्यननुभवात् । तस्मात्प्रभाणान्तरमिति । तदयुक्तम् । यस्मात्सामर्थ्यं वहेरन्यत्ततः प्रत्यक्षेण तत्स्वरूप निश्चयादेव सामर्थ्यस्य निश्चयाद्यो दाहिका शक्ति न जानाति स वह्निमपि । तत्स्वरूपापहारे भिन्नसामर्थ्यनिति चेत् । न, मन्त्रादेः तथाभूतस्यैव वह्निस्वरूपस्य पर्यायस्योत्पत्तिरिति । भवतु सामर्थ्यं न निश्चयः मूढस्य दृष्टसाधर्मादनुमानमेवेस्युक्तम् । व्याप्तिस्मरणं तु कचिदकस्माद्धूमदर्शनाद्विमतिपत्तावपि दृष्टम् । अथार्थित्वात् पूर्वमेव सर्वस्य कृतत्वात्तथा प्रतिपत्तिरत्रापि समानम् । किंच किं तत्प्रमाणान्तरम् ? । श्रौतमिति चेत् । किमिदं श्रौतम् ? । किं शब्दविषयं किंवा शब्देोल्लेखीति? | प्रथमपक्षे श्रोत्रेन्द्रियज्ञानं सकलमेव श्रोतं स्यात् तच्चा गमविरोधीति । तथाहि अष्टाविंशतिभेदमिति ज्ञानाभिधायी जैनागमः । स चैवं त्यक्तः स्यात्। अथ शब्देाल्ले खि । एवमपि मतिज्ञानं श्रौतं स्यात् । सविकल्पकं च सकलं प्रमाणं प्रसज्येत । तत्रेषु श्रौतस्य लक्षणं किं तत्याह-1 परे|पदेशज श्रीतमिति ।
परोपदेशजं श्रीतमनिशेषं जगुर्जिनाः । परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न यक्तिमत् ॥ परस्मै परस्मादुपदेशस्तस्माज्जातं यज्ज्ञानं तद्रौत अगुर्जिना: । तथा वागमः ।