Book Title: Jain Tark Vartikam
Author(s): Vitthal Shastri
Publisher: Bhagavati Prasad

View full book text
Previous | Next

Page 137
________________ ९३२ अनुमान परिच्छेदः । मानमेव स्यात् । तथाहि परोक्ष हि वस्तुनः साक्षात्प्रतीयते किंतु अन्यदर्शनादन्यस्माच्च यद्यन्नियतात्प्रतीयेत तदा यत कुतश्चित्सर्वं प्रतीयेत । नियता च प्रतीतिलौकिकमेव तत्र यदाक्षानुमारि प्रत्यभिज्ञाज्ञानं तत्प्रत्यक्षमेव न श्रौतम् । यत्तु प्रत्यक्षानिश्चितं दृष्टसाधर्म्यादर्थक्रियाकारित्वं निश्चीयते तलैङ्गिकमेवेति कुतस्त्रिविधं पराक्षमिति । अथायमपि वह्निादिनम र्थइति सामर्थ्यविषयं प्रत्यभिज्ञानं न प्रत्यक्षम् | सामर्थ्यस्य परोक्षत्वात् । नाप्यनुमानम् । व्याप्तिस्मरणाद्यननुभवात् । तस्मात्प्रभाणान्तरमिति । तदयुक्तम् । यस्मात्सामर्थ्यं वहेरन्यत्ततः प्रत्यक्षेण तत्स्वरूप निश्चयादेव सामर्थ्यस्य निश्चयाद्यो दाहिका शक्ति न जानाति स वह्निमपि । तत्स्वरूपापहारे भिन्नसामर्थ्यनिति चेत् । न, मन्त्रादेः तथाभूतस्यैव वह्निस्वरूपस्य पर्यायस्योत्पत्तिरिति । भवतु सामर्थ्यं न निश्चयः मूढस्य दृष्टसाधर्मादनुमानमेवेस्युक्तम् । व्याप्तिस्मरणं तु कचिदकस्माद्धूमदर्शनाद्विमतिपत्तावपि दृष्टम् । अथार्थित्वात् पूर्वमेव सर्वस्य कृतत्वात्तथा प्रतिपत्तिरत्रापि समानम् । किंच किं तत्प्रमाणान्तरम् ? । श्रौतमिति चेत् । किमिदं श्रौतम् ? । किं शब्दविषयं किंवा शब्देोल्लेखीति? | प्रथमपक्षे श्रोत्रेन्द्रियज्ञानं सकलमेव श्रोतं स्यात् तच्चा गमविरोधीति । तथाहि अष्टाविंशतिभेदमिति ज्ञानाभिधायी जैनागमः । स चैवं त्यक्तः स्यात्। अथ शब्देाल्ले खि । एवमपि मतिज्ञानं श्रौतं स्यात् । सविकल्पकं च सकलं प्रमाणं प्रसज्येत । तत्रेषु श्रौतस्य लक्षणं किं तत्याह-1 परे|पदेशज श्रीतमिति । परोपदेशजं श्रीतमनिशेषं जगुर्जिनाः । परोक्षं प्रत्यभिज्ञादि त्रिधा श्रौतं न यक्तिमत् ॥ परस्मै परस्मादुपदेशस्तस्माज्जातं यज्ज्ञानं तद्रौत अगुर्जिना: । तथा वागमः ।

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170