________________
३२८
अनुमानपरिच्छेदः । सामान्यपरिणामवन्तोऽस्पष्टाः परोक्षस्य विषयाति । ननु विशेषविषयत्वेऽनुमानादेः कथं न तार्णादेः प्रतीतिर्न दूरप्रत्यक्षेऽपि तस्या प्रतीतेः । तदेवं न सामान्य विषयः । नाप्यन्या. पोहः। स हि पर्यदासरूपो वास्यात्प्रसज्यरूपो वा? । प्रथमपक्षे वस्त्वन्तरमेव स्यात् । तच्च सामान्यं वा विशेष वेति विधिरेव शब्दार्थः स्यात् । द्वितीये तु निषेधमेव सात्रेति प्रतिपाद्यते । तस्य च शब्दाद्यर्थत्वम् । अयुक्तप्रतीतेः । तथा. हि-परप्रतिपादनार्थ तस्य प्रयोगः । परस्तु नीलाद्यर्थी नानीलनिषेधमान जिज्ञासति । प्रतिपादकोऽपि तथैव प्रतिपादयति। अजिज्ञासितं प्रतिपादयन्नप्रेक्षाकारी स्यात् । अथ किमानयामीति जिज्ञासायामनोलमपि जिज्ञासितं नीलमित्यनिषेध्य तेनैवं प्रतिपाद्यस्य विधावेव जिज्ञासा न प्रतिषेधमात्रे । प्रतिपादके।ऽपि तथैव प्रतिपादयति । सामादन्यप्रतिपत्तिरिति । नैतदस्ति । प्रतिपाद्यस्य सामान्येन विधावेव जिज्ञा. सा न प्रतिषेधमात्रे । विधिप्रतिपत्ती सामादन्यप्रतिषेध इति । किंधायमपोहा भावे भावस्य वा प्रतीयेत्, केवला वा? । प्रथमपक्षे भावयाः प्रतीतिः किं तेनैवानुमानादिना किं वा प्रमाणान्तरेण ? । यदि तेनैव तदा किं भावी प्रतीत्य प्रतीयते, किं वापोहप्रतीताविति । न तावत्प्रथमः परः । न हि नील. शब्देनानीलं प्रतीयते । प्रतीयमानत्वे वा कथं तनिषेध इति । नोलं वा प्रतीत्यानीलापोहप्रतीतो संवलन्ती प्रतीति: स्यात् । अथ नीलत्वमेवानीलापोहात्मकं प्रतीयमानमुपयव्यवहार रचयति तायातोऽस्मत्पथमिति। नापि द्वितीयः पक्षः । न हि केवलोपोहः प्रतीयते । पश्चात्तावित्यनुभवात् । नापि प्रमा. णान्तरं किंचित्तमानीलप्रत्यायकमास्ति । येन तदपोहः प्रती